Enter your Email Address to subscribe to our newsletters

राष्ट्रियपुरस्कारविजेता अभिनेता मनोजबाजपेयी शीघ्रमेव निर्देशकस्य सुधीरमिश्रस्य आगामीचलच्चित्रे राष्ट्रपितुः महात्मागान्धिनः भूमिकायां दृश्यन्ते। एतत् चलच्चित्रं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य एकम् महत्त्वपूर्णम् अल्पचर्चितं च अध्यायं बृहद्पटले प्रस्तुतं करिष्यति। मनोजबाजपेयीस्य अस्मिन् नूतनरूपेण दर्शकानां चलच्चित्रप्रेमिणां च उत्सुकता वर्धिता अस्ति।
चलच्चित्रस्य निर्माणम् अनुभवसिन्हस्य निर्माणसंस्था बनारसमीडियावर्क्स इत्यनया क्रियते, यदा एन एच् स्टुडियोज इत्यस्य नरेन्द्रहीरावतः निर्माता प्रस्तोता च अस्ति। चलच्चित्रे वरिष्ठः अभिनेता सौरभशुक्लः अपि महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। निर्देशकः सुधीरमिश्रः राजनैतिकसामाजिकविषयाधारितैः चलच्चित्रैः प्रसिद्धः अस्ति तथा च एषः प्रकल्पः तस्य महत्त्वाकाङ्क्षीषु चलच्चित्रेषु अन्यतमः मन्यते।
प्रतिवेदनानुसारं चलच्चित्रस्य कथा १९४७ तमस्य वर्षस्य तेषां एकविंशतिदिनानां घटनाम् आधृत्य भविष्यति, यदा देशः स्वातन्त्र्यस्य देहलीं प्राप्तवान् आसीत्, किन्तु महात्मागान्धी सत्तायाः उत्सवाच्च दूरम् एव स्थितवान्। चलच्चित्रे गान्धिनः जीवनस्य तस्य कालखण्डस्य नूतनदृष्टिकोणेन चित्रणं भविष्यति, यस्मिन् सः देहल्याः राजनैतिकक्रियाकलापेभ्यः पृथक् स्थित्वा स्वसिद्धान्तान् विचारांश्च प्राथमिकतया स्वीकृतवान्।
सुधीरमिश्रस्य कथनानुसारम् एषा कथा गान्धिनः व्यक्तित्वस्य तस्य ऐतिहासिकनिर्णयानां च गाम्भीर्यं ज्ञातुं प्रयत्नः अस्ति। अपरतः मनोजबाजपेयी स्वस्य अभिनयजीवने ‘सत्या’, ‘शूल’, ‘पिञ्जर’, ‘अलीगढ’ तथा ‘द फैमिली मैन’ इत्यादिभिः चर्चितप्रकल्पैः स्वकीयां अभिनयक्षमतां प्रमाणितवान् अस्ति। अधुना ‘भीखूम्हात्रे’ इत्यस्मात् ‘बापू’ इत्यस्य भूमिकां प्रति तस्य एषा यात्रा दर्शकेभ्यः नूतनं स्मरणीयं च अनुभवं प्रदातुं शक्नोति।
Hindusthan Samachar / Dheeraj Maithani