ओलम्पिक-पदकविजेत्र्या मनु-भाकरया महाकालस्य दर्शनं कृतम्, भस्मारार्तिक्यां च सहभागः
नन्दी-मण्डपे उपविश्य नन्दी-महाराजस्य कर्णे स्वमनोकामनाम् उक्तवती उज्जयिनी, २० अगस्तमासः (हि.स.)। ओलम्पिक-पदकविजेत्री लक्ष्यभेदिका मनु-भाकरः गुरुवासरे मध्यप्रदेशस्य उज्जयिन्यां स्थितं विश्वप्रसिद्धं ज्योतिर्लिङ्गं भगवत: महाकालेश्वरस्य मन्दिरं प्राप
ओलंपिक पदक विजेता मनु भाकर ने किए महाकाल दर्शन


नन्दी-मण्डपे उपविश्य नन्दी-महाराजस्य कर्णे स्वमनोकामनाम् उक्तवती

उज्जयिनी, २० अगस्तमासः (हि.स.)। ओलम्पिक-पदकविजेत्री लक्ष्यभेदिका मनु-भाकरः गुरुवासरे मध्यप्रदेशस्य उज्जयिन्यां स्थितं विश्वप्रसिद्धं ज्योतिर्लिङ्गं भगवत: महाकालेश्वरस्य मन्दिरं प्राप्य बाबा-महाकालस्य दर्शनम् अकरोत्। सा प्रातःकाले आयोज्यमानायां प्रसिद्धायां भस्मारार्तिक्याम् अपि सहभागम् अकरोत् तथा विधिविधानपूर्वकं पूजाम् अर्चनां च कृत्वा आशीर्वादं प्राप्तवती। अस्मिन् अवसरे सा नन्दी-मण्डपे उपविश्य नन्दी-महाराजस्य कर्णे स्वमनोकामनाम् अपि उक्तवती।

भारतस्य प्रसिद्धा लक्ष्यभेदिका ओलम्पिक-पदकविजेत्री च मनु-भाकरः अद्य प्रातः उज्जयिन्याः ज्योतिर्लिङ्गं भगवान् महाकालेश्वरस्य मन्दिरं प्राप्तवती। सा प्रातःकालीनायां भस्मारार्तिक्यां सहभागं कृत्वा पूर्णभक्तिभावेन बाबा-महाकालस्य पूजनम् अभिषेकं च अकरोत्। भस्मारार्तिक्या: अनन्तरं मनु-भाकरः नन्दी-मण्डपे उपविश्य भगवत: शिवस्य वाहनस्य नन्दी-महाराजस्य कर्णे स्वमनोकामनाम् उक्तवती। धार्मिक-मान्यतानुसारं नन्दिनः कर्णे उक्ता वार्ता साक्षात् बाबा-महाकालं प्रति प्राप्नोति।

पारम्परिक-वस्त्रं सलवार-कुर्तीं च परिधाय मन्दिरं प्राप्तवत्याः मनु-भाकरस्य महाकालेश्वर-मन्दिर-प्रबन्धसमित्या भव्यं स्वागतं सत्कारश्च कृतः। मन्दिरप्रशासनस्य अधिकारिभिः कर्मचारिभिश्च तस्यै सुव्यवस्थितरूपेण दर्शनं पूजार्चनयोः च सम्पादनाय सहयोगः प्रदत्तः।

दर्शनानन्तरं पत्रकारै: सह वार्तालापे मनु-भाकरः मन्दिरस्य व्यवस्थायाः तत्रत्यस्य भक्तिमयस्य वातावरणस्य च भूरिश: प्रशंसाम् अकरोत्। सा उक्तवती यत् तस्याः बहुकालात् महाकालस्य दरबारे आगन्तुं इच्छा आसीत्। यद्यपि तस्यै अत्र अधिककालं स्थातुं अवसरः न प्राप्तः, तथापि अल्पे एव काले अत्रत्यया भक्तिभावनया सुव्यवस्थितया व्यवस्थया च तस्याः मनः प्रसन्नम् अभवत्।

सा महाकाल-मन्दिरस्य प्रबन्धकानां कर्मचारिणां च परिश्रमस्य प्रशंसां कृत्वा प्रार्थितवती यत् भगवत: महाकालस्य आशीर्वादः सर्वेषु निरन्तरं भवतु तथा देशवासिनः कठिनपरिश्रमेण प्रगतिपथे अग्रे गच्छन्तु। मनु-भाकरः स्वकीयां उज्जयिनी-यात्रां सम्भवं कर्तुं सहयोगं कृतवत्यै सिन्धिया-महोदयायै सर्वेभ्यश्च सहयोगिभ्यः विशेषरूपेण कृतज्ञताम् अर्पितवती।

Hindusthan Samachar / Divya Ranjan