Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी प्रतिदिनमिव अद्य प्रातः सुभाषितरूपेण प्रसिद्धस्य संस्कृत-ग्रन्थस्य कथासरित्सागरस्य एकं श्लोकम् एक्स इति सामाजिकमाध्यमे लिखितवान्। श्लोकः अस्ति—
आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः। इति प्रबोधितस्तेन कथञ्चिद् दृढबुद्धिना।।’
प्रधानमन्त्री उक्तश्लोकेन कठिन-परिस्थितिष्वपि धैर्यं न त्यक्त्वा उत्साहं धारयितुं सन्देशं प्रदत्तवान्।
अस्य ग्रन्थस्य रचयिता महाकविः सोमदेवभट्टः अस्ति। प्रधानमन्त्रिणः सन्देशे अस्य श्लोकस्य भावार्थः अपि प्रदत्तः— “स्थिरया दृढया च बुद्ध्या युक्ताः ज्ञानीजनाः समये प्राप्ते बोधयन्ति यत् बुद्धिमन्तः जनाः सङ्कटकाले कठिनपरिस्थितिषु च कदापि स्वकीयम् उत्साहं न त्यजन्ति।”
Hindusthan Samachar / Divya Ranjan