उपराष्ट्रपतिः पूर्व प्रधानमंत्रिणो राजीव गांधिनो जयंत्यामददात् श्रद्धांजलिम्
नव दिल्ली, 20 अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णन् गुरुवासरे पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्पितवान्। उपराष्ट्रपतिः राधाकृष्णन् एक्स इत्यत्र लिखितवान्, “अहं तस्य स्मृतिं नत्वा देशाय तेन कृतां से
पूर्व प्रधानमंत्री राजीव गांधी (फाइल फोटो)


नव दिल्ली, 20 अगस्तमासः (हि.स.)।

उपराष्ट्रपतिः सीपी राधाकृष्णन् गुरुवासरे पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्पितवान्। उपराष्ट्रपतिः राधाकृष्णन् एक्स इत्यत्र लिखितवान्, “अहं तस्य स्मृतिं नत्वा देशाय तेन कृतां सेवां सार्वजनिकजीवने च तस्य योगदानं स्मरामि।”

उपराष्ट्रपतिः अद्यैव वीरस्य पूसारी पुलिथेवरस्य सेनायाः सेनानायकस्य शहीदस्य ओण्डीवीरनस्य बलिदानाय नमनं कृत्वा भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। तेन उक्तं यत् वीरस्य पूसारी पुलिथेवरस्य प्रबलायाः सेनायाः वीरः सेनानायकः ओण्डीवीरन् ईस्ट इण्डिया कम्पनी इत्यस्य प्रभुत्वस्य विरुद्धं निर्भीकतया युद्धं कृतवान्। तस्य वीरता, त्यागः युद्धकौशलं च स्वातन्त्र्यसङ्ग्रामस्य इतिहासे अमिटं चिह्नं स्थापितवन्ति। तस्य वीरभावना त्यागमयं च जीवनं भाविसन्ततीः सर्वदा प्रेरयतु।

---------------

Hindusthan Samachar / Dheeraj Maithani