Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य पूर्वप्रधान-मन्त्रिणं राजीवगान्धिनं तस्य जन्म-जयन्त्यवसरे स्मृतवान्। सः एक्स इति सामाजिकमाध्यमे लिखितवान्— “भारतस्य पूर्वप्रधानमन्त्रिणे श्रीराजीव-गान्धिने तस्य जन्मजयन्त्यवसरे श्रद्धाञ्जलिः।”
दिवङ्गतनेतुः परिवारस्य सदस्याः, कांग्रेसनेत्री सोनियागान्धी, राहुलगान्धी तथा प्रियङ्कागान्धी वाड्रा च श्रद्धाञ्जलिं समर्पयितुं राजीवगान्धिनः समाधिस्थलं वीरभूमिं प्राप्तवन्तः। राजीवगान्धिनं लोकसभाध्यक्षः रक्षामन्त्री च अपि स्मृतवन्तौ।
वीरभूमौ कांग्रेसाध्यक्षेन मल्लिकार्जुन-खरगेण सह आगताः सोनियागान्धी, राहुलगान्धी, प्रियङ्कागान्धी तथा तस्याः पतिः रॉबर्टवाड्रा च राजीवगान्धिने पुष्पाञ्जलिं समर्प्य तं स्मृतवन्तः। लोकसभाध्यक्षः ओमबिरला एक्स इति सामाजिकमाध्यमे लिखितवान्— “पूर्वप्रधानमन्त्रिणे श्रीराजीव-गान्धिने तस्य जन्म-जयन्त्यवसरे भावपूर्णं नमनम्।”
रक्षामन्त्री राजनाथसिंहः एक्स इति सामाजिकमाध्यमे लिखितवान्— “भारतस्य पूर्वप्रधानमन्त्रिणः राजीव-गान्धिनः जन्मजयन्त्यवसरे अहं तस्मै श्रद्धाञ्जलिं समर्पयामि। भारतस्य विकासयात्रायां तस्यापि महत्त्वपूर्णं योगदानम् आसीत्।”
पूर्वप्रधानमन्त्रिणः राजीवगान्धिनः जन्म-जयन्ती ‘सद्भावनादिवसः’ इति नाम्ना आचर्यते। सः चत्वारिंशद्वर्षेभ्यः वयसि प्रधानमन्त्री अभवत्। राजीवगान्धिनः जन्म २० अगस्तमासे १९४४ तमे वर्षे बम्बईनगरे अभवत्। ३१ अक्तूबरमासे १९८४ तमे वर्षे स्वमातुः इन्दिरागान्ध्याः हत्यायाः अनन्तरं सः कांग्रेसाध्यक्षः अभवत्, ततः प्रधान-मन्त्रीपदम् अपि अलङ्कृतवान्। राजीव-गान्धी १९८४ तः १९८९ पर्यन्तं प्रधानमन्त्रीपदे आसीत्।
Hindusthan Samachar / Divya Ranjan