Enter your Email Address to subscribe to our newsletters

कटिहार:, २० अगस्तमासः (हि.स.)। सन्तशिरोमणिः रविदासस्य ६५०तम्याः जयन्त्याः अवसरे गुरुवासरे समाहर-णालयपरिसरात् जागरूकतारथः हरितध्वजं प्रदर्श्य प्रेषितः। पूर्वोपमुख्यमन्त्री कटिहार-सदरविधानसभाक्षेत्रस्य विधायकः च तारकिशोरप्रसादः तथा जिलाधिकारी आशुतोषद्विवेदी च संयुक्तरूपेण रथं प्रेषयित्वा अभियानस्य शुभारम्भं कृतवन्तौ।
२७ अगस्ततः टोलिषु भविष्यन्ति सन्तरविदासशिविराणि
जनपदाधिकारी आशुतोषद्विवेदी उक्तवान् यत् जयन्तिसमारोहस्य उपलक्ष्ये अग्रिम २७ अगस्ततः १५ फरवरीपर्यन्तं प्रत्येकं गुरुवासरे जनपदस्य सर्वेषु टोलिषु ‘सन्तरविदासशिविराणि’ आयोजितानि भविष्यन्ति। एतेषां शिविराणां माध्यमेन सामान्यजनाः राशनपत्रं, जन्म-मृत्युप्रमाणपत्रेण सहितं विविधजनसेवानां तथा सर्वकारस्य कल्याणकारीयोजनानां प्रत्यक्षं लाभं प्राप्स्यन्ति। सः उक्तवान् यत् शिविरे प्राप्तानाम् आवेदनानां यथासम्भवं तस्मिन्नेव दिने निस्तारणं कृत्वा लाभुकानां कृते प्रमाणपत्राणि स्वीकृति-पत्राणि च स्थले एव प्रदास्यन्ते।
पञ्चायतस्तरे भविष्यति कलशयात्रा
विधायकः तारकिशोरप्रसादः प्रशासनिक-सज्जतायाः समीक्षां कृत्वा कार्यक्रमे व्यापकजनसहभागितां प्रभावीप्रचारप्रसारं च सुनिश्चितं कर्तुं निर्देशं दत्तवान्। सः उक्तवान् यत् पञ्चायत-स्तरपर्यन्तं कलशयात्रा आयोजिता भविष्यति, यस्याः कृते सम्बन्धिता-धिकारिभ्यः पूर्वमेव मार्गनिर्धारणं तथा सर्वेषाम् आवश्यकव्यवस्थानां समये एव पूर्णतां नेतुं निर्देशाः प्रदत्ताः सन्ति।
युवभ्यः भविष्यन्ति विविधाः प्रतियोगिताः
समारोहस्य समये छात्र-छात्राणां युवानां च सहभागितां सुनिश्चितं कर्तुं अनेकाः रचनात्मकाः कार्यक्रमाः आयोजिताः भविष्यन्ति। अस्य अन्तर्गतं जनपदे अन्तर्विद्यालयीयक्रीडाप्रतियोगिता, द्वि-चक्रिकियात्रा, वादविवादप्रतियोगिता तथा निबन्धलेखनप्रतियोगितानां आयोजनं भविष्यति।
Hindusthan Samachar / Divya Ranjan