‘बालिकां रक्षत, बालिकाः पाठयत’ इत्यस्य उड्डयनेन मध्यप्रदेशस्य सतनानगरस्य प्रिया उत्तरप्रदेश-आरक्षक-विभागे उपनिरीक्षिका अभवत्
निःशुल्कस्य ‘सशक्तवाहिनी-अभियानस्य’ प्रशिक्षणेन स्वप्नानां प्राप्ताः पक्षा: मेरिट्-क्रमाङ्के ३७९तमं स्थानं, बालिकावर्गे २८तमं स्थानं च प्राप्तम् भोपालम्, २० अगस्तमासः (हि.स.)। कदाचित् सीमितसाधनानां मध्ये अन्तर्जालमाध्यमेन अध्ययनं कृत्वा प्रतियोगीप
प्रिया सिंह


निःशुल्कस्य ‘सशक्तवाहिनी-अभियानस्य’ प्रशिक्षणेन स्वप्नानां प्राप्ताः पक्षा: मेरिट्-क्रमाङ्के ३७९तमं स्थानं, बालिकावर्गे २८तमं स्थानं च प्राप्तम्

भोपालम्, २० अगस्तमासः (हि.स.)। कदाचित् सीमितसाधनानां मध्ये अन्तर्जालमाध्यमेन अध्ययनं कृत्वा प्रतियोगीपरीक्षायाः सिद्धतां कुर्वती मध्यप्रदेशस्य सतनाजनपदस्य पुत्री प्रिया-सिंहः स्वकीयेन परिश्रमेण, लग्नतया आत्मविश्वासेन च एतादृशं स्थानं प्राप्तवती, यत् अधुना जनपदस्य प्रत्येकं बालिकायै प्रेरणास्वरूपम् अभवत्।

प्रिया-सिंहः अधुना उत्तरप्रदेश-आरक्षक-विभागे उपनिरीक्षकपदे स्वसेवां प्रदास्यति। तस्याः सफलता केवलं प्रतियोगीपरीक्षायां चयनस्य कथा नास्ति, अपितु ‘बालिकां रक्षत, बालिकाः पाठयत’ इति सङ्कल्पेन सम्बद्धस्य तस्याः उड्डयनस्य कथा अस्ति, यस्मिन् सर्वकारीयप्रयत्नाः, परिवारस्य सहयोगः बालिकायाः परिश्रमश्च सम्मिलिताः भूत्वा सफलतायाः मार्गं निर्मान्ति।

जनसम्पर्काधिकारिणी बिन्दु-सुनीलः गुरुवासरे सूचनां दत्त्वा उक्तवती यत् सतनानगरस्य मारुतिनगर-शारदा-कॉलोनीनिवासिनी प्रिया-सिंहः उत्तरप्रदेश-आरक्षकस्य उपनिरीक्षकपदस्य नियुक्ति-परीक्षायां ४,५४३ सफलाभ्य-र्थिनीनां मध्ये समग्रक्रमे ३७९तमं स्थानं तथा बालिकावर्गे २८तमं स्थानं प्राप्तवती। प्रियया एषा सफलता कस्याश्चित् महर्घनिजीप्रशिक्षणसंस्थायाः आश्रयेण न, अपितु स्वकीयेन परिश्रमेण महिला-बालविकासविभागस्य, सतनाजनपदस्य च पक्षतः ‘बालिकां रक्षत, बालिकाः पाठयत’ योजनायाः अन्तर्गतं सञ्चालितस्य ‘सशक्तवाहिनी-अभि-यानस्य’ निःशुल्कप्रशिक्षणस्य माध्य-मेन प्राप्ता।

तेन उक्तं यत् प्रियायाः कथा तासां बालिकानां कृते विशेषः सन्देशः ददाति, याः महत्स्वप्नानि पश्यन्ति, किन्तु साधनानां न्यूनतां स्वमार्गस्य बाधां मन्यन्ते। प्रियया अपि स्वकीयायाः सिद्धतायाः समये अन्तर्जालमाध्यमेन अध्ययनस्य सह विभागस्य निःशुल्कानाम् प्रत्यक्षकक्षाणाम् लाभः प्राप्तः। नियमिताध्ययनं, अनुशासनं निरन्तराभ्यासश्च तस्याः आत्मविश्वासं दृढं कृतवन्तः, शनैः शनैः तस्याः स्वप्नं लक्ष्यस्य दिशि अग्रसरितुम् आरब्धम्।

लिखितपरीक्षायां सफलतायाः अनन्तरं प्रियायाः पुरतः शारीरिकदक्षतापरीक्षायाः समस्या आसीत्। अत्रापि तया स्वकीयस्य परिश्रमस्य सामर्थ्यं प्रदर्शितम्। २,४०० मीटर्-परिमितां धावनस्पर्धां यत्र १६ निमेषेषु पूर्णां कर्तव्यम् आसीत्, तां प्रिया केवलं १२ निमेषैः ३५ क्षणैः पूर्णां कृतवती। एतत् प्रदर्शनं तस्याः शारीरिकसिद्धतया सह दृढसङ्कल्पस्यापि कथा कथयति।

जनसम्पर्काधिकारिण्या उक्तं यत् प्रियायाः पिता राजभान-सिंहः सम्पत्तिव्यवसायी अस्ति तथा माता श्रीमती सन्तोष-सिंहः गृहिणी अस्ति। परिवारस्य सीमित-साधनानाम् अभावेऽपि माता-पितरौ पुत्र्याः स्वप्नानि कदापि सीमितानि न कृतवन्तौ। प्रियायाः त्रयः भ्रातरः नागेन्द्र-सिंहः, शैलेन्द्र-सिंहः सुखेन्द्र-सिंहश्चापि तस्याः सिद्धतायाः समये निरन्तरं तस्याः सह स्थितवन्तः। प्रिया स्वकीयां सफलतां माता-पित्रोः, भ्रातॄणां ‘सशक्तवाहिनी-अभियानस्य’ च निःशुल्कप्रशिक्षणस्य श्रेयः ददाति।

प्रियायाः सफलतायां ‘बालिकां रक्षत, बालिकाः पाठयत’ इत्यभियानस्य भावनापि साकाररूपेण दृश्यते। एषा उपलब्धिः सूचयति यत् यदा बालिकाभ्यः शिक्षा, अवसरः सम्यक् मार्गदर्शनं च प्राप्यते, तदा ताः न केवलं स्वपरिवारस्य नाम उज्ज्वलं कुर्वन्ति, अपितु समाजस्य अन्यासां बालिकानाम् अपि नूतनं मार्गं निर्मान्ति। ‘सशक्तवाहिनी-अभियानस्य’ माध्यमेन बालिकाभ्यः प्रतियोगीपरीक्षाणां सिद्धतायै निःशुल्कं मार्गदर्शनं प्रशिक्षणं च प्रदातुं एतां भावनामेव दृढतां नयति।

प्रिया-सिंहस्य सफलता अद्य तस्याः परिवारे हर्षस्य कारणम् अस्ति, किन्तु ततोऽपि अधिकं सा सतनानगरस्य तासां बालिकानां कृते आशायाः किरणम् अस्ति, याः स्वभविष्यस्य विषये स्वप्नानि पश्यन्ति। प्रियया सिद्धं कृतं यत् लक्ष्यप्राप्त्यै साधनेभ्यः अधिकं महत्त्वपूर्णः सङ्कल्पः, परिश्रमः अवसरस्य सम्यगुप-योगश्च भवति।

लघुनगरस्य बालिकायाः उत्तरप्रदेश-आरक्षक-विभागस्य उपनिरीक्षकपदपर्यन्तं प्रियायाः यात्रा एतं सन्देशं ददाति— बालिकाभ्यः अवसरं प्रदत्त, ताः स्वकीयेन परिश्रमेण सफलतायाः नूतनम् इतिहासं रचयितुं शक्नुवन्ति। ‘बालिकां रक्षत, बालिकाः पाठयत’ इत्यस्यैव स्वप्नं अधुना प्रियायाः सफलतारूपेण धरातले साकारं भवतीव दृश्यते।

Hindusthan Samachar / Divya Ranjan