Enter your Email Address to subscribe to our newsletters

-साई इत्यस्य 63तमे गवर्निंग बॉडी-उपवेशने प्रतिभान्वेषणं, अनुशिक्षणस्य क्रीडायाः च आधारभूते विस्तारे बलम्
नवदिल्ली, 20 अगस्तमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना लालदुर्गस्य प्राचीरतः देशव्यापिनः क्रीडाप्रतिभान्वेषणाभियानस्य प्रारम्भस्य घोषणां अग्रे वर्धयन् केन्द्रीययुवकार्यक्रमक्रीडामन्त्री डॉ. मनसुखमाण्डवियः गुरुवासरे २०३६ तमवर्षस्य ओलम्पिकक्रीडायै भारतस्य क्रीडकप्रतिभानां सुदृढं समूहं निर्मातुं द्रुतव्यापके प्रतिभाचिह्नीकरणस्य कार्ययोजनां निर्मातुम् आह्वानं कृतवान्।
भारतीयक्रीडाप्राधिकरणस्य अर्थात् साई इत्यस्य त्रिषष्टितमस्य शासकनिकायस्य उपवेशनस्य अध्यक्षतां कुर्वन् डॉ. माण्डवियः अवदत् यत् आगामी दशके भारतस्य क्रीडामहत्त्वाकाङ्क्षाणां पूर्तये आधारः अधुना एव स्थापनीयः। सः अवदत्, यत् आगामीदशवर्षाणां योजना, देशे ओलम्पिकक्रीडायाः आयोजनं पश्यितुं पूर्वमेव, अस्मिन्नेव क्षणे पूर्णवेगेन प्रारब्धव्या।
प्रधानमन्त्रिणः देशव्यापिनां क्रीडाप्रतिभानां चिह्नीकरणं तासां परिष्कारं च कर्तुम् आह्वानस्य अनुरूपं डॉ. माण्डवियः अवदत् यत् साई संस्थया स्वप्रतिभान्वेषणव्यवस्थां सुदृढां करणीयम् तथा तादृशी सुव्यवस्थिता प्रणाली स्थापनीया, यस्याः माध्यमेन तेषां क्रीडकानां चिह्नीकरणं भवेत्, येषु उच्चतमस्तरं प्राप्तुं क्षमता वर्तते।
सः अवदत् यत् प्रतिभाचिह्नीकरणं द्वयोः पृथक्पर्याययोः करणीयम्। प्रथमचरणे राज्यस्तरे जिलास्तरे च उत्तमं प्रदर्शनं कुर्वतां क्रीडकानां चिह्नीकरणं करणीयम् तथा द्वितीयचरणे तेषां क्षमतायाः मूल्याङ्कनाय तेषां मानचित्रणं करणीयम्। तेषु शारीरिकसामर्थ्यं, क्रीडायां अनुरागः, समर्पणभावना अग्रिमस्तरं प्रति अग्रसरितुं क्षमता वा अस्ति न वेति निर्धारितं करणीयम्।
डॉ. माण्डवियः अवदत् यत् प्रतिभाचिह्नीकरणस्य प्रक्रियायां क्रीडायाः सम्पूर्णं आधारभूततन्त्रं समावेशनीयम्, यस्मिन् विद्यालयाः, जिलाः महाविद्यालयानि च अन्तर्भवन्ति। सः अवदत् यत् तादृशस्य व्यापकस्य प्रतिभाभाण्डारस्य निर्माणं लक्ष्यं भवेत्, यस्य उपयोगः अनन्तरं क्रीडाविद्यालयेषु उच्चस्तरीयप्रशिक्षणव्यवस्थासु च क्रीडकानां प्रेषणाय कर्तुं शक्येत।
सार्वजनिकनिजीभागीदारीप्रतिरूपस्य विकासे बलम्
क्रीडाप्रशिक्षणव्यवस्थायाः विस्ताराय डॉ. माण्डवियः सार्वजनिकनिजीभागीदारीप्रतिरूपस्य अर्थात् पीपीपीप्रतिरूपस्य विकासस्य आवश्यकतायाम् अपि बलं दत्तवान्। सः अवदत् यत् अस्याः व्यवस्थायाः अन्तर्गतं राज्यस्तरीयजिलास्तरीयप्रतिभान्वेषणस्य माध्यमेन चिह्निताः क्रीडकाः विशेषप्रशिक्षणाय उपयुक्ताभिः क्रीडाप्रशिक्षणसंस्थाभिः सह संयोजितुं शक्यन्ते।
सः क्रीडाविकासे निगमक्षेत्रस्य महत्त्वपूर्णां भूमिकां रेखाङ्कयन् निगमसामाजिकदायित्वस्य अर्थात् सीएसआर इत्यस्य अधिकभागीदारीम् अपि बलपूर्वकं प्रतिपादितवान्। सः अवदत् यत् एतादृशेन सहयोगेन शासकीयक्रीडासुविधाभ्यः परं देशस्य प्रशिक्षणक्षमतायाः विस्ताराय सहायता भविष्यति तथा प्रतिभाचिह्नीकरणव्यवस्थायाः माध्यमेन उद्भवमानानां क्रीडकानां कृते क्रीडाप्रशिक्षणसंस्थानां विस्तृतजालस्य निर्माणं कर्तुं शक्यते।
राष्ट्रियप्रशिक्षकमान्यतामण्डलस्य स्थापनायै अनुमोदनम्
प्रशिक्षणव्यवस्थां सुदृढां कर्तुं प्रयत्नानां अन्तर्गतं शासकनिकायेन राष्ट्रियप्रशिक्षकमान्यतामण्डलस्य अर्थात् एनसीएबी इत्यस्य स्थापनायै अनुमोदनं प्रदत्तम्। एनसीएबी संशोधितखेलोइण्डियायोजनायाः महत्त्वपूर्णः भागः भविष्यति तथा प्रशिक्षकाणां मान्यतायै तेषां विकासाय च अधिकं सुव्यवस्थितं ढाँचा प्रदास्यति।
शासकनिकायेन साई संस्थायां प्रतिनियुक्त्याधारेण सहायकप्रशिक्षकस्य षष्ठवेतनस्तरस्य पदे नियुक्त्यै भर्तीसम्बद्धेषु नियमेषु प्रस्तावितसंशोधनस्य अनुमोदनम् अपि कृतम्।
क्रीडापरियोजनानां गतिं त्रिगुणितां कर्तुम् आह्वानम्
भारतस्य क्रीडातन्त्रस्य विकासस्य गतिं निरन्तरं स्थापयितुम् आवश्यकतायाः विषये बलं दत्त्वा डॉ. माण्डवियः अवदत् यत् बहवः विकासकार्यक्रमाः प्रचलन्ति तथा अस्याः गतिं निरन्तरं स्थापयितव्याम्। स्वक्रीडापरियोजनाः दृढतया अग्रे वर्धयितुं त्रिगुणितेन वेगेन कार्यं करणीयम्।
सः अवदत् यत् सर्वकारात् वर्धमानानाम् अपेक्षाणां भारतीयानां मध्ये क्रीडासु वर्धमानस्य रुचेः च दृष्ट्या देशेन स्वप्रयासानां गतिः वर्धनीया। डॉ. माण्डवियः अवदत् यत् नूतनसन्ततेः कृते नूतनदृष्टिकोणस्य अपेक्षां पूरयितव्या तथा तस्याः गतिः निरन्तरं स्थापनीया।
---------------
Hindusthan Samachar / Dheeraj Maithani