भारतस्थस्य अमेरिकीराजदूतस्य सर्जियोगोरस्य श्रीनगरस्य सौन्दर्येण मनः आकृष्टम्
नवदिल्ली, २० अगस्तमासः (हि.स.)। भारतस्थः अमेरिकीराजदूतः सर्जियोगोरः बुधवासरे जम्मू-कश्मीर-लद्दाखयोः द्वि-दिवसीययात्रायाः क्रमे श्रीनगरं प्राप्तवान्। सः श्रीनगरस्य सौन्दर्यस्य प्रशंसां कृतवान्। सः एक्स इति सामाजिकमाध्यमे शब्दचित्रं लिखितवान्। सः लिख
3bffa4ebdf4874e506c2b12405796aa5_1800900044.jpg


नवदिल्ली, २० अगस्तमासः (हि.स.)। भारतस्थः अमेरिकीराजदूतः सर्जियोगोरः बुधवासरे जम्मू-कश्मीर-लद्दाखयोः द्वि-दिवसीययात्रायाः क्रमे श्रीनगरं प्राप्तवान्। सः श्रीनगरस्य सौन्दर्यस्य प्रशंसां कृतवान्। सः एक्स इति सामाजिकमाध्यमे शब्दचित्रं लिखितवान्। सः लिखितवान्— “परीमहलस्य प्रसिद्धस्य च डलसरोवरस्य भ्रमणेन सह श्रीनगरस्य सौन्दर्यस्य अनुभवः अत्यन्तं रमणीयः अभवत्।”

सर्जियोगोरः बुधवासरे श्रीनगरे आयोजिते वार्ताहरसम्मेलने उक्तवान् यत् अमेरिका जम्मू-कश्मीरस्य विषये प्रचलितस्य यात्रापरामर्शस्य पुनरवलोकनं करिष्यति, यतः केन्द्रसर्वकारेण मुख्यमन्त्रिणा उमर-अब्दुल्ला इत्यनेन च क्षेत्रं अधिकसुरक्षितं कर्तुं विविधाः पदक्षेपाः स्वीकृताः सन्ति।गोरः उक्तवान् यत् जम्मू-कश्मीरः भारतस्य महत्त्वपूर्णः भागः अस्ति तथा च अत्यन्तं सुन्दरं क्षेत्रम् अस्ति।

Hindusthan Samachar / Divya Ranjan