बसपाप्रमुखया मायावत्या उत्तरप्रदेशस्य सर्वकारीयविद्यालयानां दुर्दशां प्रति चिन्ता प्रकटिता, उक्तं— सर्वकारः दृढपदानि स्वीकरोतु
लखनऊ, २० अगस्तमासः (हि.स.)। बहुजनसमाजपार्टी (बसपा) इत्यस्याः राष्ट्रीयाध्यक्षया मायावत्या देशव्यापिनः प्रचलितस्य ‘विद्यालयं सुधारयतु’ अभियानस्य समर्थनं कृतम्। बालानां शिक्षां प्रति चिन्तां प्रकटयन्त्या उत्तरप्रदेश-सहितेषु सर्वेषु राज्येषु सर्वकारेभ
बसपा प्रमुख मायावती की फोटो


लखनऊ, २० अगस्तमासः (हि.स.)। बहुजनसमाजपार्टी (बसपा) इत्यस्याः राष्ट्रीयाध्यक्षया मायावत्या देशव्यापिनः प्रचलितस्य ‘विद्यालयं सुधारयतु’ अभियानस्य समर्थनं कृतम्। बालानां शिक्षां प्रति चिन्तां प्रकटयन्त्या उत्तरप्रदेश-सहितेषु सर्वेषु राज्येषु सर्वकारेभ्यः शिक्षाव्यवस्थायाः सुधारं कर्तुं परामर्शः प्रदत्तः।

बसपाप्रमुखा मायावती गुरुवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे लिखितवती यत् जेन-अल्फा अर्थात् २०१३ तमस्य वर्षस्य अनन्तरं जाताः बालकाः उत्तमशिक्षां प्राप्तुं प्रतीक्षां कुर्वन्ति। ते सर्वकारात् स्वस्य ‘सुदिनानां’ अपेक्षां कुर्वन्ति। एतेषां छात्राणाम् अतिरिक्तं तेषां माता-पितरौ अपि स्वबालानां सुखदभविष्याय उत्तम-शिक्षां प्रति सदैव चिन्तितौ भवतः। बालकेभ्यः उत्तमशिक्षां प्रदातुं ते बहूनां कठिनताः अनुभवन्ति, येन तेभ्यः ये कष्टाः भवन्ति तेषां बालकाः तानि कष्टानि न अनुभवेयुः।

किन्तु सम्पूर्णदेशे, विशेषतः उत्तरप्रदेशे उत्तरभारतस्य च राज्येषु विद्यालयानां दुरवस्थायाः कटुसामाजिकवास्तविकतायाः कारणात् ते जनाः अत्यन्तं मुखराः अभवन्। अत एव ते जेन-जी अर्थात् ‘कॉकरोच जनता पार्टी’ इत्यस्य देशव्यापिनः ‘विद्यालयं सम्यक् करोतु’ अभियानस्य उत्साहपूर्वकं वर्धितरूपेण सहभागितां कुर्वन्ति।

मायावती उक्तवती यत् एषा अत्यन्तं दुःखस्य चिन्तायाश्च विषयः अस्ति यत् येषां निष्पापबालकानां बालिकानां च हसन-क्रीडनस्य पठन-लेखनस्य च दिवसाः सन्ति, ते स्वस्य प्रारम्भिकविद्यालयीय-शिक्षायै मूलभूतसुविधानां प्राप्त्यर्थम् अपि मार्गेषु सङ्घर्षं कर्तुं बाध्यन्ते।

बसपाप्रमुखा उक्तवती यत् परमपूज्यस्य बाबा साहेब डॉ. भीमराव-अम्बेडकरस्य ‘शिक्षिताः भवत’ इति आह्वानस्य कारणात् शिक्षायां, विशेषतः विद्यालयीयशिक्षायां, ‘बहुजनसमाजस्य’ जनानां कृते सदैव विशेषचिन्तायाः विषयः अभवत्। अस्यैव अन्तर्गतं तस्याः दलस्य बसपायाः द्वारा उपेक्षितानां, पीडितानां शोषितानां च समाजस्य जनानां हितकल्याणाय शिक्षायै च उत्तरप्रदेशे तस्याः नेतृत्वे सञ्चालितासु बसपायाः सर्वेषु चतर्षु सर्वकारेषु पूर्णं ध्यानं प्रदत्तम्, येन बाबा साहेब डॉ. भीमराव-अम्बेडकरेण निर्मितस्य मानवतावादी-कल्याण-कारीभारतीय-संविधानस्य अनुरूपं ते सर्वे परिवाराः अन्न-रोजगार-शिक्षायुक्तं स्वाभिमानपूर्णं समतामूलकं जीवनं प्राप्तुं शक्नुयुः।

बसपासुप्रिमो उक्तवती यत् किन्तु एषा अत्यन्तं दुःखस्य चिन्तायाश्च विषयः अस्ति यत् सर्वकारीयविद्यालयव्यवस्थां श्रेष्ठां कर्तुं समुचितं ध्यानं दातुं स्थाने सर्वकारैः अधिकांशतः तस्याः घोरम् उपेक्षणमेव कृतम्। सम्पूर्णां शिक्षाव्यवस्थां एकप्रकारेण एतेषां वर्गाणां आरक्षणस्य इव बहुधा निष्क्रियं कर्तुं षड्यन्त्रं प्रवर्तितम् अस्ति। अस्याः प्रक्रियायाः अन्तर्गते सहस्रं सर्वकारीयविद्यालया: अपि पिधीयन्ते, यस्यापि बसपया निरन्तरं विरोधः कृतः।

मायावती उक्तवती यत् अधुना विद्यालयभवनानां, शिक्षकाणां, पेयजलस्य, शौचालयानां स्वच्छतायाश्च इत्यादीनां मूलभूतानां आवश्यकतानां अत्यन्ताभावं प्रति लघवः जेन-अल्फाबालकाः स्वयं अत्यन्तं मुखराः सन्तः अधुना आन्दोलनमपि कुर्वन्ति। सा उत्तरप्रदेश-सहितानां अन्यराज्यानां सर्वकारेभ्यः आग्रहं कृतवती यत् जेन-अल्फावर्गस्य निष्पापबालकानां बालिकानां च उत्तमशिक्षा-व्यवस्था-सम्बद्धासु आवश्यकतासु मागेषु च पूर्णया सहानुभूत्या सम्यगभिप्रायेण सम्यक्प्र-णाल्या च तत्कालं ध्यानं ददतु। तेषां विरुद्धं कस्यापि सर्वकारस्य बलप्रयोगात् पूर्णतया निवृत्तिः भवेत्, इति उचितं भविष्यति।

Hindusthan Samachar / Divya Ranjan