Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणो निर्देशः, गोरखपुरे, मुजफ्फरनगरे बरेल्यां च सीआईआईआईटी केंद्राणां संचालनस्य शीघ्रं शुभारंभा करणीया
लखनऊ, 20 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे व्यावसायिकशिक्षा, कौशलविकासस्य उद्यमशीलताविभागस्य च कार्ययोजनायाः समीक्षां कुर्वन् अवदत् यत् औद्योगिकप्रशिक्षणसंस्थानानि अधिकाधिकैः उद्योगैः सह संयोजयितव्यानि। उद्योगानां आवश्यकतानुसारं पाठ्यक्रमस्य प्रशिक्षणस्य च विकासेन सह प्रशिक्षुताप्रशिक्षणस्य कार्यस्थलप्रशिक्षणस्य च प्रोत्साहनं दीयताम्, येन प्रशिक्षणं प्राप्तेभ्यः युवकेभ्यः रोजगारस्य उत्तमाः अवसराः प्राप्नुयुः।
मुख्यमन्त्री अवदत् यत् कौशलविकासः रोजगारस्य सह वैश्विकावसरेभ्यः अपि संयोजनीयः। औद्योगिकप्रशिक्षणसंस्थानानां उद्योगानां च मध्ये निरन्तरसंवादस्य व्यवस्था भवितव्या तथा प्रत्येकं मण्डलमुख्यालये नियमितरूपेण रोजगारमेलकानाम् आयोजनं करणीयम्।
मुख्यमन्त्री नवाचारस्य, आविष्कारस्य, उद्भवनस्य प्रशिक्षणस्य च केन्द्राणां अर्थात् सीआईआईआईटी केन्द्राणां प्रगतेः समीक्षां कुर्वन् गोरखपुरे, मुजफ्फरनगरे बरेलीनगरे च स्थितानां केन्द्राणां सञ्चालनं शीघ्रं प्रारब्धुं निर्देशान् दत्तवान्। सः अवदत् यत् एतानि केन्द्राणि आधुनिकप्रौद्योगिक्याः उद्योगाधारितप्रशिक्षणस्य च उत्कृष्टकेन्द्ररूपेण विकसितव्यानि। उपवेशने सूचितं यत् टाटा टेक्नोलॉजीज इत्यस्य सहयोगेन १५० राजकीयऔद्योगिकप्रशिक्षणसंस्थानानाम् उन्नयनस्य कार्यं क्रियते, यदा तु अन्येषां ६२ औद्योगिकप्रशिक्षणसंस्थानाम् उन्नयनस्य प्रक्रिया अपि अग्रे वर्धते। उद्योगानां सहयोगेन ३७ राजकीयऔद्योगिकप्रशिक्षणसंस्थानेषु उन्नतप्रशिक्षणप्रयोगशालाः स्थापिताः सन्ति।
मुख्यमन्त्री प्रशिक्षकाणाम् उपलब्धतां प्रशिक्षणस्य गुणवत्तायै महत्त्वपूर्णां मन्यमानः चयनप्रक्रियायाः तीव्रतया अग्रे वर्धनस्य निर्देशान् दत्तवान्। सः अवदत् यत् चयनितप्रशिक्षकाणां नियमितनियुक्तेः प्रक्रियायां तेषां अनुभवस्य कार्यस्य च आधारेण अतिरिक्ताङ्कप्रदानस्य प्रावधानं करणीयम्। उपवेशने सूचितं यत् २४०६ प्रशिक्षकपदानां कृते चयनं कृतम् अस्ति तथा २२०० अधिकाः चयनितप्रशिक्षकाः कार्यभारं स्वीकृतवन्तः।
उपवेशने सूचितं यत् प्रशिक्षणार्थिनां कृते कार्यस्थले हिन्दीभाषायाः आधिकारिकशब्दावल्याः प्रयोगस्य च सम्बन्धे प्रशिक्षणस्य व्यवस्था कृता अस्ति तथा प्रत्येकस्य प्रशिक्षणार्थिनः कृते आङ्ग्लभाषाप्रशिक्षणम् अनिवार्यं कृतम् अस्ति। जापानजर्मनीदेशयोः इव देशेषु कुशलजनशक्तेः मागं दृष्ट्वा विदेशभाषाणां अङ्कीयप्रशिक्षणस्य प्रारम्भाय संस्थानां चयनस्य प्रक्रिया प्रचलति।
मुख्यमन्त्री शून्यदारिद्र्याभियानेन सम्बद्धानां परिवाराणां बालकानां युवानां च कौशलप्रशिक्षणं प्रदाय रोजगारस्य स्वरोजगारस्य च सह संयोजनाय विशेषं ध्यानं दातुं निर्देशान् दत्तवान्। उपवेशने सूचितं यत् एतेषां परिवाराणां १४ तः ३५ वर्षपर्यन्तस्य आयुवर्गस्य ९.५२ लक्षं युवानां सत्यापनं सम्पन्नम् अस्ति, येषु १.४४ लक्षं पात्राः चिह्निताः सन्ति। एतेषु ८७४६ युवानः प्रशिक्षणाय पञ्जीकृताः सन्ति।
उपवेशने सूचितं यत् विगतेषु पञ्चसु वर्षेषु उत्तरप्रदेशकौशलविकासमिशनस्य माध्यमेन २१.१३ लक्षं युवानः प्रशिक्षणं प्राप्तवन्तः तथा १२.९४ लक्षं युवानः सेवायोजनं प्राप्तवन्तः। मुख्यमन्त्री अवदत् यत् अधुना कौशलप्रशिक्षणस्य सफलतायाः मूल्याङ्कनं प्रशिक्षणस्य संख्यायाः अपेक्षया अधिकं जीविकायाः स्वरोजगारस्य च परिणामैः करणीयम्। सः अवदत् यत् उत्तरप्रदेशस्य युवभ्यः आधुनिककौशलं, उद्योगाधारितप्रशिक्षणं वैश्विकरोजगारस्य अवसरांश्च प्रदाय प्रदेशं देशस्य अग्रणीं कौशलकेन्द्रं कर्तुं दिशि द्रुतगत्या कार्यं करणीयम्।
Hindusthan Samachar / Dheeraj Maithani