रामेश्वरमन्दिरे मातृशक्त्या श्रद्धाभक्तिपूर्वकं रुद्राभिषेकं कृतम्
वाराणसी, २० अगस्तमासः (हि.स.)। प्रभुजनसेवासंस्थानस्य तथा कुटुम्बप्रबोधन-मातृशक्ति-आयामस्य काशी-मध्यस्य च संयुक्ततत्त्वावधाने वाराणस्यां लक्सास्थिते रामकुण्डस्य रामेश्वरमन्दिरे श्रद्धाभक्तिपूर्वकं रुद्राभिषेकः पूजनार्चनं च आयोजितम्। रुद्राभिषेककार्य
रुद्राभिषेक करने पहुंची एमएलसी अन्नपूर्णा


वाराणसी, २० अगस्तमासः (हि.स.)। प्रभुजनसेवासंस्थानस्य तथा कुटुम्बप्रबोधन-मातृशक्ति-आयामस्य काशी-मध्यस्य च संयुक्ततत्त्वावधाने वाराणस्यां लक्सास्थिते रामकुण्डस्य रामेश्वरमन्दिरे श्रद्धाभक्तिपूर्वकं रुद्राभिषेकः पूजनार्चनं च आयोजितम्। रुद्राभिषेककार्यक्रमे बहवः श्रद्धालवः सहभागितां कृतवन्तः तथा च भगवतः शिवस्य विधिवत् पूजनं कृत्वा सुखस्य, शान्तेः, समृद्धेः तथा लोककल्याणस्य च कामनां कृतवन्तः।

कार्यक्रमे विधानपरिषद्सदस्या अन्नपूर्णासिंहः उक्तवती यत् श्रावणमासे भगवतः शिवस्य रुद्राभिषेकेन मनसः शान्तिः जीवने च कल्याणस्य प्राप्तिः भवति। एषा भगवतः शिवस्य विशिष्टा पूजा अस्ति, या रुद्राभिषेकः इति कथ्यते। ऋषिमुनीनां कालात् एव रुद्राभिषेकः क्रियमाणः अस्ति। काश्यां अस्य पूजनस्य विशेषं महत्त्वम् अस्ति। संस्थायाः महिलाभिः आयोजिते रुद्राभिषेककार्यक्रमे सहभागितां कृत्वा तासां अत्यन्तं हर्षः अभवत्।

गुरुवासरे संस्थायाः अध्यक्षा लक्ष्मीपाठकः उक्तवती यत् सर्वेषां श्रद्धालूनां सदस्यनां च पक्षतः सङ्कल्पं कृत्वा भगवतः शिवात् समाजस्य, राष्ट्रस्य तथा समस्तमानव-समुदायस्य कल्याणाय प्रार्थना कृता अस्ति।

अस्मिन् अवसरे संस्थायाः सचिवा डॉ. श्रीमती नीतासिंहः, दयाशङ्करः, दुर्गादेवी, हरदत्तः, नीता, डॉ. कल्पना, डॉ. नलिनी पाठकः, नीतू सिंहः, अर्पणा पाठकः, शालिनी गोस्वामी, वन्दना रघुवंशी इत्यादयः संस्थायाः सदस्याः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan