श्रावणे मासे माँ बागेश्वरी देवी मंदिरे हरियाली श्रृंगारस्य भविष्यति आयोजनम्
वाराणसी, 20 अगस्तमासः (हि. स.)।वाराणस्याः जैतपुरास्थिते प्राचीने पावने च श्रीश्री१००८ मातुः बागेश्वरीदेव्याः स्कन्दमातुः मन्दिरे आगामिनि शुक्रवासरे अगस्तमासस्य एकविंशतितमे दिनाङ्के भव्यस्य ‘हरितशृङ्गारस्य’ आयोजनं महत्या श्रद्धया धूमधामपूर्वकं च करि
मंदिर में तैयारी के अंतर्गत लगाया गया बैनर


वाराणसी, 20 अगस्तमासः (हि. स.)।वाराणस्याः जैतपुरास्थिते प्राचीने पावने च श्रीश्री१००८ मातुः बागेश्वरीदेव्याः स्कन्दमातुः मन्दिरे आगामिनि शुक्रवासरे अगस्तमासस्य एकविंशतितमे दिनाङ्के भव्यस्य ‘हरितशृङ्गारस्य’ आयोजनं महत्या श्रद्धया धूमधामपूर्वकं च करिष्यते। उक्तं संसूचनं महन्तेन गोपालमिश्रेण गुरुवासरे पत्रकारेभ्यः प्रदत्तम्।

महन्तः गोपालमिश्रः कथितवान् यत् श्रावणमासे मातुः राण्याः दिव्यं मनोहरं च हरितशृङ्गारं परम्परया क्रियते। अस्मिन् वर्षेऽपि भक्तैः हरितशृङ्गारस्य सज्जता पूर्णा कृता अस्ति। मातुः हरितशृङ्गारानन्तरं विशेषारती पूजनार्चनं च सम्पन्नं भविष्यति। शृङ्गारदर्शने उपस्थितानां श्रद्धालूनां मध्ये महाप्रसादस्य वितरणं भविष्यति।

अस्मिन् अवसरे श्रद्धालुभिः पङ्क्तिबद्धदर्शनार्थम् आगन्तव्यं भविष्यति। अतिरिक्तपङ्क्तिः न भविष्यति। अस्य आयोजनस्य सेवायित्री मीना देवी कृता अस्ति। भक्ताः मातुः बागेश्वरीदेव्याः दर्शनपूजनं कृत्वा प्रसादं गृहीत्वा पुण्यस्य भागिनः भवन्तु इति आमन्त्र्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani