Enter your Email Address to subscribe to our newsletters

विश्वचित्रकला-दिवसे छायाचित्र-प्रतियोगिता, विद्यार्थिभ्यः छायाचित्रणस्य नवीनाः प्रौद्योगिक्यः बोधिताः
वाराणसी, २० अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां विश्वचित्रकला-दिवसस्य उपलक्ष्ये काश्याः हिन्दूविश्वविद्यालयस्य व्यवहारिक-कलाविभागे (कलासंकायः) आयोज्य-मानायाः चतुर्दिवसीयायाः छायाचित्र-प्रतियोगितायाः तृतीये दिने गुरुवासरे विद्यार्थिभ्यः नवीनाः प्रौद्योगिक्ययः पाठिताः।
प्रतियोगितायां वरिष्ठपत्रकारः अमिताभ-अग्रवालः तथा छायाचित्रकारः मनीष-खत्री च विद्यार्थिभ्यः छायाचित्रणस्य नवीनाभिः तकनीकीभिः, कृत्रिमबुद्धिमत्तया तथा वाराणस्याः दृश्यसंस्कृत्या परिचितं कारितवन्तौ। कार्यक्रमस्य समये छायाचित्रणस्य परिवर्तमानायाः तक-नीक्याः सृजनशीलतायाश्च विषये अमिताभ-अग्रवालेन विशेषं व्याख्यानं प्रदत्तम्।
तेन उक्तं यत् अद्य छायाचित्रणं केवलं कॅमेरायन्त्रेण चित्रग्रहणपर्यन्तं सीमितं न वर्तते। कृत्रिमबुद्धिमत्ता, मिररलेस-कॅमेरायन्त्रं, अङ्कीयप्रक्रिया तथा आधुनिकानि छायाचित्रण-सॉफ्टवेयर इत्येतानि अस्य स्वरूपं सम्भावनाश्च बहुधा विस्तारितवन्ति।
विभागाध्यक्षः प्रो. मनीष-अरोडा छायाचित्रणस्य सम्बन्धं भारतीया-ध्यात्मिकदृष्ट्या स्थापितवान्। तेन उक्तं यत् प्रत्येकं छायाचित्रकारः स्वकीयां छायाचित्रण-दृष्टिं भगवतः भोलेनाथस्य तृतीयनेत्रेण सह तुलयेत्। यदा कश्चित् छायाचित्रकारः कञ्चित् दृश्यं, वस्तु वा गतिं कॅमेरायन्त्रेण अथवा चलदूरभाषेण चित्रितुं पश्यति, तदा सः केवलं कॅमेरायन्त्रं न पश्यति, अपितु तस्य स्वकीयदृष्टिः, अनुभवः संवेदना च तस्मिन् क्षणे तस्य चयनं कुर्वन्ति। तेन एषा सृजनात्मिका दृष्टिः छायाचित्रकारस्य ‘तृतीयनेत्रम्’ इति कथिता।
कार्यक्रमे नगरस्य साहित्यकारः व्योमेश-शुक्लः उक्तवान् यत् साहित्यं चित्रं च परस्परस्य पूरके स्तः तथा वाराणसी अस्य सर्वाधिकं जीवन्तम् उदाहरणम् अस्ति। वाराणसी स्वयं मुक्तं चित्रं मुक्तं साहित्यं च अस्ति, यत्र सर्वप्रकारस्य सृजनशीलतायै आमन्त्रणं प्राप्यते। अत्रत्याः वीथ्यः, घाटाः, मन्दिराणि, जनाः, जीवनशैली, उत्सवाः, मृत्युः, सङ्गीतम्, आध्यात्मिकता तथा दैनन्दिनं जीवनम्—सर्वं निरन्तरं स्वकीयां कथां कथयति। वाराणसीं पश्यन् प्रत्येकं जनः स्वानुभवस्य दृष्टेः च अनुसारं भिन्नां वाराणसीं अन्वेष्टुं शक्नोति।
तेन उक्तं यत् जीवनस्य दुःखानां कथां सम्यक्प्रकारेण प्रदर्शयितुं कथयितुं च यत् साधनं तत् एव छायाचित्रणम्। उत्तमं चित्रं केवलं दृश्यं न प्रदर्शयति, अपितु तस्य पृष्ठतः निहितां सम्पूर्णां कथां, संवेदनां जीवनस्य आन्तरिकं द्वन्द्वं च अपि प्रकाशयति।
प्रतियोगितायाः अस्मिन् विशेषकार्यक्रमे विभागस्य शताधिकैः छात्रैः छात्राभिश्च सहभागिता कृता तथा त्रयाणाम् विशेषज्ञानां व्याख्यानानां संवादसत्राणां च लाभः प्राप्तः। कार्यक्रमे विद्यार्थिभिः स्वकीयानि छायाचित्राणि प्रदर्शितानि, विशेषज्ञेभ्यः प्रश्नाः पृष्टाः तथा छायाचित्रणस्य प्रौद्योगिकीनां सृजनात्म-कानां च सम्भावनानां विषये विस्तृतं विमर्शं कृतम्।
कार्यक्रमस्य संयोजकेन कृष्णा-सिंहेन आयोजनस्य विभिन्नचरणानां समन्वये महत्त्वपूर्णा भूमिका निर्वुढा। डॉ. आशीष-कुमार-गुप्तेन तथा सहायकप्राध्यापिकया सृष्टि-प्रजापतिना धन्यवादः ज्ञापितः। अस्याः प्रतियोगितायाः समापनं शुक्रवासरे २१ अगस्तमासे भविष्यति।
Hindusthan Samachar / Divya Ranjan