पश्चिमबंगाले उद्घाटयिष्यते शतम् अमृत फार्मेसीसंस्थानानि, एचएलएल लाइफकेयर ने राज्यसर्वकारेण प्रतिबद्धता
कोलकाता, 20 अगस्तमासः (हि.स.)। पश्चिमबङ्गराज्ये जनानां कृते सुलभमूल्येषु गुणवत्तापूर्णानि औषधानि स्वास्थ्यसम्बद्धानि च उत्पादानि उपलब्धानि कर्तुं शतम् अमृत् औषधालयानि उद्घाट्यन्ते। अस्य सम्बन्धे स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य अधीनस्थेन मिनीरत्नक
अमृत फार्मेसी कार्यक्रम


कोलकाता, 20 अगस्तमासः (हि.स.)। पश्चिमबङ्गराज्ये जनानां कृते सुलभमूल्येषु गुणवत्तापूर्णानि औषधानि स्वास्थ्यसम्बद्धानि च उत्पादानि उपलब्धानि कर्तुं शतम् अमृत् औषधालयानि उद्घाट्यन्ते। अस्य सम्बन्धे स्वास्थ्यपरिवारकल्याणमन्त्रालयस्य अधीनस्थेन मिनीरत्नकेन्द्रीयसार्वजनिकक्षेत्रोपक्रमेण एच् एल् एल् लाइफकेयर लिमिटेड इत्यनेन पश्चिमबङ्गसर्वकारेण सह समझौताज्ञापनपत्रे हस्ताक्षरं कृतम्। गुरुवासरे कोलकातानगरस्य नेताजी इण्डोरक्रीडाङ्गणे आयोजिते कार्यक्रमे मुख्यमन्त्रिणः शुभेन्दु अधिकारिणः, केन्द्रीयमन्त्रिण्याः अनुप्रियापटेल् इत्यादीनां गणमान्यजनानां उपस्थितौ समझौताज्ञापनपत्रस्य आदानप्रदानं जातम्। एच् एल् एल् संस्थायाः निदेशकः बेनी जोसेफः पश्चिमबङ्गसर्वकारस्य स्वास्थ्यविभागस्य प्रधानसचिवेन नारायण निगमेन सह समझौताज्ञापनपत्रस्य आदानप्रदानं कृतवान्।

वर्तमानकाले पश्चिमबङ्गराज्ये षड् अमृत् औषधालयानि सञ्चालितानि सन्ति। नूतनानि शतम् अमृत् केन्द्राणि राज्यस्य सर्वकारीयेषु चिकित्सालयेषु अन्येषु च सर्वकारीयस्वास्थ्यसंस्थानेषु स्थापितानि भविष्यन्ति। एतेषां औषधालयानां माध्यमेन रोगिभ्यः आवश्यकानि औषधानि चिकित्सासम्बद्धानि च उत्पादानि सुलभमूल्येषु उपलब्धानि कर्तुं लक्ष्यं निर्धारितम् अस्ति।

पञ्चदश अगस्त् २०२६ पर्यन्तं देशस्य चतुर्विंशतिराज्येषु चतृषु च केन्द्रशासितप्रदेशेषु अमृतस्य कुलं द्व्यशीत्यधिकद्विशतं औषधालयानि सञ्चालितानि सन्ति। एतेषु केन्द्रेषु षट्सहस्राधिकानि पञ्चशतानि औषधानि स्वास्थ्यसम्बद्धानि च उत्पादानि उपलब्धानि सन्ति।

ए एम् आर् आई टी तन्नाम ‘अफोर्डेबल मेडिसिन्स् एण्ड् रिलायबल् इम्प्लाण्ट्स् फॉर् ट्रीटमेण्ट्’ इति योजनायाः प्रारम्भः २०१५ तमे वर्षे अभवत्। अस्याः योजनायाः कार्यान्वयनं एच् एल् एल् लाइफकेयर लिमिटेड इत्यनेन क्रियते। योजनायाः उद्देश्यम् रोगिभ्यः आवश्यकानि औषधानि चिकित्सासम्बद्धानि च उत्पादानि सुलभमूल्येषु उपलब्धानि कर्तुं तथा स्वास्थ्यसेवासु तेषां प्रवेशं सुकरं कर्तुम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani