Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 20 अगस्तमासः (हि.स.)।उपराष्ट्रपतिः सी. पी. राधाकृष्णन् गुरुवासरे लोकभवनपरिसरे स्थिते भगवान् शिवाय समर्पिते राजप्रज्ञेश्वरमन्दिरे विधिवत् पूजनार्चनं कृतवान्। तेन देशवासिनां सुखस्य, शान्तेः, समृद्धेश्च कामना कृता।
अस्मिन् अवसरे उत्तराखण्डस्य राज्यपालः लेफ्टिनेन्टजनरल् गुरमीतसिंहः सेवानिवृत्तः तथा प्रथममहिला गुरमीतकौरः अपि उपस्थिते आस्ताम्।
Hindusthan Samachar / Dheeraj Maithani