अखिलभारतीय-तकनीकीशिक्षापरिषद्–शिक्षामन्त्रालयस्य नवाचारप्रकोष्ठेन च ‘स्मार्ट इण्डिया हैकाथॉन’ इत्यस्य शुभारम्भः कृतः
नवदिल्ली, २१ अगस्तमासः (हि.स.)। अखिलभारतीय-तकनीकीशिक्षापरिषदः शिक्षामन्त्रालयस्य नवाचारप्रकोष्ठेन च शुक्रवासरे ‘स्मार्ट इण्डिया हैकाथॉन’-२०२६ इत्यस्य नवमसंस्करणस्य अन्तर्जाल-माध्यमेन शुभारम्भः कृतः। तेन सह प्रतियोगितायै दलानां पञ्जीकरणं नूतनविचाराण
एआईसीटीई के अध्यक्ष प्रो. योगेश सिंह शुक्रवार को स्मार्ट इंडिया हैकाथॉन (एसआईएच) 2026 के नौवें संस्करण का ऑनलाइन शुभारंभ करने के दौरान


नवदिल्ली, २१ अगस्तमासः (हि.स.)। अखिलभारतीय-तकनीकीशिक्षापरिषदः शिक्षामन्त्रालयस्य नवाचारप्रकोष्ठेन च शुक्रवासरे ‘स्मार्ट इण्डिया हैकाथॉन’-२०२६ इत्यस्य नवमसंस्करणस्य अन्तर्जाल-माध्यमेन शुभारम्भः कृतः। तेन सह प्रतियोगितायै दलानां पञ्जीकरणं नूतनविचाराणां समर्पणप्रक्रिया च प्रारब्धा।

कार्यक्रमस्य नेतृत्वम् ए.आई.सी.टी.ई.-अध्यक्षेण प्रो. योगेशसिंहेन कृतम्। अस्मिन् अवसरे शिक्षामन्त्रालयस्य उच्चतर-शिक्षाविभागस्य उपसचिवा डॉ. तपस्या राघवा, विभिन्नविश्वविद्यालयानां संस्थानानां च प्रतिनिधयः, शिक्षकाः, मन्त्रालयानां विभागानां च अधिकारिणः, सार्वजनिकक्षेत्रस्य उपक्रमाणां उद्योगानां च सम्पर्काधिकारिणः तथा देशस्य विभिन्नभागेभ्यः विद्यार्थिनः उपस्थिताः आसन्।

प्रो. योगेशसिंहः अवदत् यत् स्मार्ट इण्डिया हैकाथॉन विद्यार्थिनां सृजनात्मकतां समाजस्य, शासनस्य उद्योगस्य च वास्तविकसमस्याभिः सह संयोजयन् राष्ट्रीय-अभियानरूपेण कार्यं करोति। अस्मिन् वर्षे कृत्रिमबुद्धिमत्ता, यन्त्राधिगमः, अन्तर्जाल-वस्तुतन्त्रं, ६-जी, कृषिः, साइबरसुरक्षा, स्वच्छहरितप्रौद्योगिकी, आपदाप्रबन्धनम् इत्यादिषु विविधक्षेत्रेषु २२६ समस्याः प्रस्तुताः सन्ति।

तेन कथितं यत् एतासु समस्यासु सप्तविंशत्यधिकानां मन्त्रालयानां, द्वादश सार्वजनिकक्षेत्रोपक्रमाणाम् उद्योगानां च तथा द्वयोः राज्यसर्वकारयोः योगदानम् अस्ति। स्मार्ट इण्डिया हैकाथॉन केवलं प्रतियोगिता नास्ति, अपि तु आत्म-निर्भरभारतस्य निर्माणाय राष्ट्रिय-शिक्षानीतेः-२०२० कार्यान्वयनाय च महत्त्वपूर्णं माध्यमम् अस्ति।

प्रो. सिंहः अवदत् यत् अस्याः पहलस्य माध्यमेन विद्यार्थिभ्यः विभिन्नविषयेषु परस्परं सहकार्येण कार्यं कर्तुं वास्तविकसमस्यानां व्यावहारिकसमाधानानि च निर्मातुं अवसरः प्राप्यते। विद्यार्थिनां नूतनविचाराः स्थायिसमाधानेषु नवोद्यमेषु च परिणमिष्यन्ते इति तेन आशा व्यक्ता।

तेन सर्वेषां शिक्षणसंस्थानां सम्पर्काधिकारिणां च आह्वानं कृतं यत् ते दलानां पञ्जीकरणं प्रारभेरन् तथा विद्यार्थिनः वास्तविकजीवनस्य समस्याभ्यः नूतनसमाधानानि निर्मातुं प्रोत्साहयेयुः। संस्थानेभ्यः आन्तरिक-हैकाथॉन इत्यस्य आयोजनं, दलनिर्माणं विद्यार्थिनां मार्गदर्शनप्रक्रियायाः च आरम्भः कर्तुं सः आग्रहं कृतवान्।

संस्थानानि विद्यार्थिनः च पञ्जीकरण-सम्बन्धिनीं सहभागितासम्बन्धिनीं च सूचनां प्राप्तुं स्वस्वसम्पर्काधिकारिभिः सह सम्पर्कं कर्तुं शक्नुवन्ति। प्रतियोगिता-सम्बद्धाः समस्याः, विषयाः विस्तृतनिर्देशाः च एस.आई.एच. इत्यस्य आधिकारिके अन्तर्जालपटले उपलब्धाः सन्ति।

उल्लेखनीयं यत् स्मार्ट इण्डिया हैकाथॉन इत्यस्य प्रारम्भः २०१७ तमे वर्षे अभवत् तथा तत् अधुना राष्ट्रीयस्तरीयस्य नवाचार-मञ्चस्य रूपेण विकसितम् अस्ति। अद्यावधि ९४०० अधिकेभ्यः संस्थानेभ्यः १८ लक्षाधिकाः विद्यार्थिनः अस्मिन् भागं गृहीतवन्तः। विभिन्नमन्त्रालयैः, विभागैः, राज्यसर्वकारैः, सार्वजनिकक्षेत्रस्य उपक्रमैः उद्योगैश्च अद्यावधि ३१०० अधिकाः वास्तविकसमस्याः अस्मिन् मञ्चे प्रस्तुताः सन्ति।

हैकाथॉन इत्यस्य माध्यमेन निर्मितानां समाधानानाम् उपयोगः अन्तरिक्षा-नुसन्धानं, जलगुणवत्तायाः निरीक्षणम्, कृषिः, सौन्दर्यप्रसाधनम्, शासनं साइबरसुरक्षा च इत्यादिषु अनेकक्षेत्रेषु कृतः अस्ति।

Hindusthan Samachar / Divya Ranjan