सम्पूर्णं ‘वन्दे मातरम्’ गानम् अस्मिन् वर्षे स्वातन्त्र्यदिवससमारोहं विशेषं कृतवान् - अमितशाहः
सिलीगुडी, २१ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः शुक्रवासरे अवदत् यत् देशस्य स्वातन्त्र्यप्राप्तेः विभाजनस्य च अनन्तरं दीर्घकालं यावत् केचन जनाः ‘वन्दे मातरम्’ इत्येतत् पूर्णमनसा न स्वीकृतवन्तः। तेन उक्तं यत् संसदः मध्ये अस्य गीतस्य गान
अमित शाह


सिलीगुडी, २१ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः शुक्रवासरे अवदत् यत् देशस्य स्वातन्त्र्यप्राप्तेः विभाजनस्य च अनन्तरं दीर्घकालं यावत् केचन जनाः ‘वन्दे मातरम्’ इत्येतत् पूर्णमनसा न स्वीकृतवन्तः। तेन उक्तं यत् संसदः मध्ये अस्य गीतस्य गानं भवति स्म तथा सर्वे जनाः सम्मानपूर्वकं स्थितवन्तः, किन्तु स्वातन्त्र्यप्राप्तेः अनन्तरमपि अस्य सम्पूर्णसंस्करणस्य गानं न भवति स्म इति तथ्यं तं सर्वदा खेदयति स्म।

अमितशाहः दार्जिलिङ्गमण्डलस्य सिली-गुडीनगरे सशस्त्रसीमाबलस्य अधिकारिणः सैनिकान् च सम्बोधयन् एतत् उक्तवान्। अस्मिन् अवसरे तेन जवानैः सह संवादः कृतः तथा सिलीगुडीनगरे अनेक-परियोजनानां शिलान्यासोऽपि कृतः।

तेन उक्तं यत् अस्मिन् वर्षे स्वातन्त्र्यदिवससमारोहः तस्य कृते विशेषः अभवत्। शाहः अवदत् यत् २०१४ तमात् वर्षात् प्रधानमन्त्री नरेन्द्रमोदी यदा यदा रक्तदुर्गात् स्वातन्त्र्यदिवसे राष्ट्रध्वजं आरोहयति, तदा सः तत्र उपस्थितः अभवत्। किन्तु अस्मिन् वर्षे अष्टाशीतितमः स्वातन्त्र्यदिवससमारोहः भिन्नः अभवत्, यतः प्रथमवारं सम्पूर्णं ‘वन्दे मातरम्’ गीतं गतम्।

गृहमन्त्री ‘वन्दे मातरम्’ इत्यस्य रचयितारं बङ्किमचन्द्रचट्टोपाध्यायं स्मरन् अवदत् यत् एषा रचना न केवलं स्वातन्त्र्यसङ्घर्षस्य गतिं वर्धितवती, अपि तु स्वतन्त्रभारतस्य कल्पनायै दिशामपि प्रदत्तवती। तेन उक्तं यत् बङ्किमचन्द्र-चट्टोपाध्यायः स्वस्य रचनया स्वतन्त्रभारतं कीदृशं भवितव्यम् इति बोधयितुं प्रयत्नं कृतवान्।

सीमासुरक्षायाः सीमायां च प्राकारनिर्माणाय भूम्याः आवंटनस्य विषये अमितशाहः मुख्यमन्त्री शुभेन्दुअधिकारी इत्यस्य प्रशंसां कृतवान्। तेन उक्तं यत् मुख्यमन्त्रिपदं स्वीकृत्य अनन्तरं सीमायां प्राकारनिर्माणाय भूम्याः आवंटनस्य दीर्घकालात् लम्बितं कार्यं तीव्रगत्या अग्रे वर्धितम् अस्ति। राज्यसर्वकारेण अद्यावधि अस्य कृते १,१२९ एकडपरिमिता भूमिः आवंटिता अस्ति।

अमितशाहः पूर्वमुख्यमन्त्री ममताबनर्जीम् उद्दिश्य आलोचनां कृत्वा अवदत् यत् तया स्वस्य कार्यकालस्य समये सीमायां प्राकारनिर्माणाय भूमिं उपलब्धां कारयितुं तं बहुवारम् आग्रहः कृतः, किन्तु तस्याः आग्रहस्य ध्यानं न दत्तम्। तेन उक्तं यत् केन्द्रसर्वकारः राज्यात् भाजपायै न, अपि तु देशस्य सीमायाः नागरिकाणां च सुरक्षायै भूमिं याचते स्म।

अस्मिन् अवसरे अमितशाहः प्रसिद्धस्य शहनाईवादकस्य उस्तादबिस्मिल्लाह-खानस्य पुण्यतिथौ श्रद्धाञ्जलिमपि अर्पितवान्। तेन बिस्मिल्लाहखानेन सम्बद्धं प्रसङ्गमेकं कथयित्वा उक्तं यत् यदा तं पृष्टं यत् संसदः, राष्ट्रपतिन: पुरतः बृहदायोजनेषु च शहनाईवादनानन्तरं कुत्र तस्मै सर्वाधिकः आनन्दः प्राप्यते, तदा सः गङ्गातीरे प्रातःकालस्य समये काशीविश्वनाथस्य सन्निधौ शहनाई-वादनमेव परमं सुखम् इति अवदत्।

हिन्दुस्थान समाचार / Divya Ranjan