चंपत रायः नवपृष्ठात्मकस्य पत्रे 33 बिन्दून् उदथापयत्, कथितवान्-मंदिर निर्माण समितेः अध्यक्षस्य नृपेंद्र मिश्रस्य निर्णयेन अवर्तत प्रभावी
अयोध्या, 21 अगस्तमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य पूर्वमहासचिवः चम्पतरायः गुरुवासरे वक्तव्यरूपेण नवपृष्ठीयं पत्रं प्रकाशितवान्। अस्मिन् पत्रे सः त्रयस्त्रिंशत् बिन्दून् चर्चितवान्। तेन मन्दिरनिर्माणसमित्याः अध्यक्षं नृपेन्द्रमिश्रं
चम्पत राय और चिट्ठी


अयोध्या, 21 अगस्तमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य पूर्वमहासचिवः चम्पतरायः गुरुवासरे वक्तव्यरूपेण नवपृष्ठीयं पत्रं प्रकाशितवान्। अस्मिन् पत्रे सः त्रयस्त्रिंशत् बिन्दून् चर्चितवान्। तेन मन्दिरनिर्माणसमित्याः अध्यक्षं नृपेन्द्रमिश्रं प्रति अनेके महत्त्वपूर्णाःप्रस्तावाः प्रस्तुताः। रायः अवदत् यत् मन्दिरनिर्माणसमित्याः अध्यक्षः नृपेन्द्रमिश्रः मन्दिरनिर्माणसम्बद्धान् अनेकान् महत्त्वपूर्णान् निर्णयान् स्वयमेव गृहीतवान्। न केवलम्, निर्णयं कुर्वन् सः अन्येषां निर्णयानां महत्त्वं न दत्तवान्। चम्पतरायः दावां कृतवान् यत् मन्दिरनिर्माणसम्बद्धेषु निर्णयेषु नृपेन्द्रमिश्रस्य निर्णयाः प्रमुखाः आसन्।

तेन पत्रे उक्तं यत् उच्चतमन्यायालयेन राममन्दिरनिर्माणाय यः न्यासः निर्मितः, तस्मिन् पञ्चदश न्यासिनः निर्दिष्टाः आसन्। तस्य अध्यक्षः नृपेन्द्रमिश्रः नियुक्तः। रायः अवदत् यत् तस्यैव सुझावानाम् आधारेण एल् एण्ड् टी इति संस्था मन्दिरनिर्माणाय चयनिता। सः अवदत् यत् भवनानां निर्माणाय नोएडास्थिता डिजाइन एसोसिएट् इति संस्था, यस्याः प्रमुखः जयकाकतीकरः अस्ति, सा अपि नृपेन्द्रमिश्रेण एव चयनिता।

तेन पत्रे लिखितं यत् एतदपि सत्यम् अस्ति यत् नृपेन्द्रमिश्रस्य कारणेन पाषाणनिर्मितं तादृशं विशालं मन्दिरं २०२० तमस्य वर्षस्य जूनमासे कोरोनाकालात् प्रारभ्य २०२६ तमस्य वर्षस्य जूनमासपर्यन्तं पूर्णतया निर्मितं समाजाय समर्पितं च अभवत्। एतत् केवलं नृपेन्द्रमिश्रस्य प्रयत्नानां परिणामः अस्ति। यदा कदापि काचित् बाधा उत्पन्ना, तदा सः तत्सम्बद्धविषयस्य देशस्य योग्यतमैः जनैः निवेदनं कृत्वा तान् तत्कालम् अयोध्यां आहूतवान्। तेषां परामर्शस्य आधारेण सा बाधा दूरीकृता। एतदपि सत्यम् अस्ति यत् अधिकांशाः विद्वांसः अत्र सेवाभावेन सुझावान् दत्तवन्तः, अर्थात् श्रीरामजन्मभूमितीर्थक्षेत्रात् तैः किमपि पारिश्रमिकं न गृहीतम्।

रायः अवदत् यत् अनूपमित्तलः कदाचित् एनबीसीसी संस्थायाः अध्यक्षः आसीत् तथा सः मन्दिरनिर्माणसमित्याः सदस्यः अपि अस्ति। सः सिविल इञ्जिनीयरः अस्ति। सः नृपेन्द्रमिश्रस्य अभियांत्रिकीसम्बद्धेषु विषयेषु सदैव परामर्शदाता आसीत्। नृपेन्द्रमिश्रस्य सर्वाणि लिखितकार्याणि अनूपमित्तलः एव करोति स्म। उदाहरणार्थं निर्माणसमितेः उपवेशनानां विवरणनिर्माणं, सम्बन्धितजनानां प्रति तस्य प्रेषणम् इत्यादीनि कार्याणि सः करोति स्म। अनूपमित्तलेन सह यशमित्तलः नाम युवा सिविल इञ्जिनीयरः अपि सदैव आगच्छति स्म। सः तत्कालमेव स्वकीयसङ्गणकयन्त्रे प्रत्येकं विषयं लिखति स्म। तस्य आधारेण सर्वाणि कार्याणि सम्पाद्यन्ते स्म। एतत् प्रशंसनीयम् अस्ति। तस्मै अहं कृतज्ञतां व्यक्तं करोमि।

सः अवदत् यत् अन्तरराष्ट्रीयं रामकथासङ्ग्रहालयम् उत्तरप्रदेशसर्वकारस्य सम्पत्तिः अस्ति। नृपेन्द्रमिश्रेण चिन्तितं यत् तीर्थक्षेत्रन्यासेन अपि एकः सङ्ग्रहालयः निर्मातव्यः। लघुनगरे द्वयोः सङ्ग्रहालययोः निर्माणं व्यावहारिकं न भवति। अतः तेन उत्तरप्रदेशसर्वकारस्य सम्बन्धिताधिकारिभिः सह वार्ता कृता। ते तस्य प्रस्तावम् अङ्गीकृतवन्तः।

उत्तरप्रदेशसर्वकारस्य श्रीरामजन्मभूमितीर्थक्षेत्रस्य च मध्ये लिखितः अनुबन्धः अभवत्। त्रिंशद्वर्षाणां कृते सङ्ग्रहालयभवनं तीर्थक्षेत्रन्यासाय पट्टेन प्राप्तम्। तस्य निरीक्षणानन्तरं सर्वैः अनुभूतं यत् तस्य पूर्णं जीर्णोद्धारकार्यं आवश्यकम् अस्ति। नृपेन्द्रमिश्रेण सङ्ग्रहालयस्य सम्पूर्णकार्यस्य निरीक्षणाय राष्ट्रियसङ्ग्रहालयात् निवृत्तः सञ्जीबसिंहः चयनितः। सः अयोध्यां आगत्य सर्वाणि कार्याणि स्वीकृतवान्।

रायस्य अनुसारं वास्तुकारः जयकाकतीकरः रेखाचित्रं निर्मितवान्। उत्तरप्रदेशराजकीयनिर्माणनिगमाय जीर्णोद्धारकार्यं समर्पितम्। इञ्जिनीयर् इण्डिया लिमिटेड् इत्यस्मै जीर्णोद्धारकार्यस्य निरीक्षणदायित्वं प्रदत्तम्। सञ्जीबसिंहेन सङ्ग्रहालये विंशतिगृहाणां रूपरेखा निर्मिता। न्यासस्य अध्यक्षः मिश्रः कतिपयानां कार्याणां विकासं सङ्ग्रहालये स्थापनं च भारतीयप्रौद्योगिकीसंस्थानस्य मद्रासस्य कृते समर्पितवान्। संस्थायाः प्रतिनिधयः अयोध्यां आगत्य सङ्ग्रहालयस्य निरीक्षणं कृत्वा कार्यम् आरब्धवन्तः।

प्रत्येकं मासं मन्दिरनिर्माणसमितेः उपवेशनस्य साथमेव सङ्ग्रहालयसम्बद्धकार्याणां कृते नृपेन्द्रमिश्रेण सम्बन्धितैः सर्वैः जनैः सह द्वित्रेषु सत्रेषु उपवेशनं कर्तुं प्रारब्धम्। शनैः शनैः कार्यं प्रगतिं प्राप्नोति। सम्भावना अस्ति यत् २०२७ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं सङ्ग्रहालयं समाजस्य दर्शनाय उद्घाटितं भविष्यति।

Hindusthan Samachar / Dheeraj Maithani