Enter your Email Address to subscribe to our newsletters

अयोध्या, 21 अगस्तमासः (हि.स.)। श्रीरामजन्मभूमेः निर्माणसमित्याः उपवेशनस्य द्वितीयदिने शुक्रवासरे श्रीराममन्दिरनिर्माणकार्यसम्बन्धे नृपेन्द्रमिश्रेण सर्किटहाउस इत्यत्र पत्रकारेभ्यः प्रगतेः सूचना प्रदत्ता। सः अवदत् यत् अयोध्यायां भगवान् श्रीरामस्य भव्यं मन्दिरं निर्मीयमाणं भवेत् इति कोटिशः श्रद्धालूनां स्वप्नस्य साकाररूपं भवति।
श्रीराममन्दिरन्यासस्य पूर्वमहासचिवेन चम्पतरायेण गुरुवासरे प्रकाशिते पत्रे स्वनामोल्लेखसम्बन्धे पृष्टः सन् नृपेन्द्रमिश्रः अवदत् यत् सः तत् पत्रं दृष्टवान् एव नास्ति। सः पत्रकारान् प्रति अवदत् यत् यूयं विवादं जनयितुम् इच्छथ। मन्दिरनिर्माणकार्ये केन्द्रसर्वकारस्य वा राज्यसर्वकारस्य वा धनं न प्रयुक्तम्, अपि तु न्यासेन सङ्गृहीतेन धनेन मन्दिरनिर्माणं कारितम्।
सः अवदत् यत् निर्धारितेषु प्रायः सप्ततिः निर्माणकार्येषु षष्टिः कार्याणि प्रायः पूर्णानि अभवन्। पूर्णानि जातानि निर्माणकार्याणि श्रीरामजन्मभूमितीर्थक्षेत्रन्यासाय समर्पितानि। अधुना तेषां परिपालनस्य दायित्वं न्यासः निर्वक्ष्यति।
परिसरे वर्षाकाले जलसञ्चयस्य समस्यां दूरीकर्तुं मलजलनिःसारणव्यवस्थां वर्षाजलनिःसारणव्यवस्थां च मुख्यनालेन सह सम्बद्धं कर्तुं कार्यं करिष्यते। नृपेन्द्रमिश्रः अवदत् यत् सङ्ग्रहालयस्य सभागारस्य न्यासकार्यालयस्य च निर्माणकार्येषु अधुना विशेषं ध्यानं दीयते।
सङ्ग्रहालयस्य सप्तम्यां वीथिकायां प्रायः पञ्चकोटिरूप्यकाणां व्ययः भविष्यति। अत्र प्रवेशशुल्कं भवेत् वा न भवेत् इति निर्णयं न्यासः करिष्यति। राममन्दिरन्यासस्य मुख्यकार्यपालकाधिकारिणः नियुक्त्यर्थं साक्षात्कारसम्बन्धे पृष्टः सन् सः अवदत् यत् सः अस्यां प्रक्रियायां सम्मिलितः नास्ति तथा च अस्य विषये तस्य कापि सूचना नास्ति।
Hindusthan Samachar / Dheeraj Maithani