Enter your Email Address to subscribe to our newsletters

रायपुरम् , 21 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः उत्तराखण्डस्य चमोलीजनपदे निर्माणाधीनायां सुरङ्गायां जलप्रवेशस्य दुःखदघटनायां छत्तीसगढस्य कोंडागांवजनपदस्य चतुर्णां श्रमिकाणां निधनं प्रति गहनं शोकं व्यक्तवान्। मुख्यमन्त्रिणा गतस्य रात्रेः विलम्बितसमये मृतकश्रमिकाणां परिजनेभ्यः पञ्च पञ्चलक्षरूप्यकाणां तथा दुर्घटनायां घातितेभ्यः द्वाभ्यां श्रमिकाभ्यां पञ्चाशत् पञ्चाशत् सहस्ररूप्यकाणां आर्थिकसहायतां प्रदातुं निर्देशाः प्रदत्ताः।
अस्मिन् दुर्घटनायां कोंडागांवजनपदस्य धनसुलीग्रामस्य द्वौ, मदनारग्रामस्य एकः, दहीकोंगाग्रामस्य एकश्च श्रमिकः मृतः अस्ति, यदा जनपदस्य द्वौ श्रमिकौ घातितौ स्तः। दिवङ्गतश्रमिकाणां पार्थिवशरीराणि कोंडागांवम् आनीतानि, यत्र परिजनानां उपस्थितौ तेषां अन्त्येष्टिसंस्कारः कृतः।
मुख्यमन्त्री सायः उक्तवान् यत् राज्यसर्वकारः दुःखस्य अस्मिन् समये शोकसन्तप्तपरिवारैः सह पूर्णसंवेदनशीलतया स्थितः अस्ति तथा च तेभ्यः सर्वसम्भवा सहायता उपलब्धा करिष्यते। मुख्यमन्त्रिणा ईश्वरं प्रति दिवङ्गतात्मनां शान्त्यै तथा शोकसन्तप्तपरिजनानाम् एतत् असीमदुःखं सोढुं शक्तिप्रदानाय च प्रार्थना कृता अस्ति। तेन दुर्घटनायां घातितयोः उभयोः श्रमिकयोः शीघ्रस्वास्थ्यलाभस्य कामना अपि कृता।
Hindusthan Samachar / Dheeraj Maithani