विश्व वरिष्ठ नागरिक दिवसे मुख्यमंत्री मोहन माझी अददाद्वृद्धेभ्यः शुभकामनाम्
भुवनेश्वरम्, 21 अगस्तमासः (हि.स.) विश्ववरिष्ठनागरिकदिवसस्य अवसरे ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी राज्यस्य सर्वेभ्यः वरिष्ठनागरिकेभ्यः वृद्धजनेभ्यश्च हार्दिकशुभकामनाः प्रदत्तवान् तथा च तेषां प्रति सम्मानं व्यक्तवान्। तेन उक्तं यत् वरिष्ठनाग
विश्व वरिष्ठ नागरिक दिवसे मुख्यमंत्री मोहन माझी अददाद्वृद्धेभ्यः शुभकामनाम्


भुवनेश्वरम्, 21 अगस्तमासः (हि.स.)

विश्ववरिष्ठनागरिकदिवसस्य अवसरे ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी राज्यस्य सर्वेभ्यः वरिष्ठनागरिकेभ्यः वृद्धजनेभ्यश्च हार्दिकशुभकामनाः प्रदत्तवान् तथा च तेषां प्रति सम्मानं व्यक्तवान्। तेन उक्तं यत् वरिष्ठनागरिकाणाम् अनुभवः ज्ञानं च समाजाय निरन्तरं प्रेरणां प्रदातुं तं सुदृढं कर्तुं च महत्त्वपूर्णां भूमिकां निर्वहति।

मुख्यमन्त्री माझी शुक्रवासरे सामाजिकमाध्यमेन प्रकाशिते सन्देशे उक्तवान् यत् ओडिशासर्वकारः वरिष्ठनागरिकाणां गरिमायाः, स्वास्थ्यस्य, कल्याणस्य च सुनिश्चिततायै प्रतिबद्धः अस्ति। तेन सर्वकारस्य विविधाः जनकल्याणकारीयोजनाः उल्लिखिताः। आयुष्मान् वय वन्दना योजना, वरिष्ठनागरिकतीर्थयात्रायोजना, वर्धिता सामाजिकसुरक्षापेन्शनयोजना च वृद्धजनानां हिताय महत्त्वपूर्णानि पदानि इति तेन कथितम्।

मुख्यमन्त्रिणा उक्तं यत् सर्वकारस्य उद्देश्यं संवेदनशीलस्य वरिष्ठनागरिकानुकूलस्य च ओडिशाराज्यस्य निर्माणम् अस्ति, यत्र वृद्धजनाः सदैव सम्मानं, सुरक्षां, आवश्यकं सहयोगं च प्राप्नुयुः। तेन समाजस्य सर्वेभ्यः वर्गेभ्यः वरिष्ठनागरिकाणां प्रति सम्मानस्य संवेदनशीलतायाश्च भावनया सह मिलित्वा कार्यं कर्तुम् आह्वानं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani