Enter your Email Address to subscribe to our newsletters

भोपालम्, २० अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शुक्रवासरे टीकमगढे मुख्यमन्त्रिणः जनविश्वास-अभियाने सहभागी भविष्यति।जनसम्पर्काधिकारिणी अवन्तिका-जायसवालः अवदत् यत् मुख्यमन्त्री उद्योगसम्बन्धिनः संवादस्य, समाधान-अन्तर्जाल-व्यवस्थायाः तथा मुख्यमन्त्रिणः निरीक्षणाधीनानां प्रकर-णानां समीक्षां करिष्यति। मुख्यमन्त्री डॉ. यादवः जनपदविकास-सलाहकार-समितेः सभायाम् अपि सहभागी भविष्यति।
मुख्यमन्त्री डॉ. यादवः टीकमगढस्य स्थानीयैः नागरिकैः सह संवादमपि करिष्यति।
Hindusthan Samachar / Divya Ranjan