Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शुक्रवासरे केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्रिणः जे.पी. नड्डायाः निवासस्थानं गत्वा तस्य स्वास्थ्यस्य समाचारं ज्ञातवान् तथा च तस्य शीघ्रस्वास्थ्यलाभस्य कामनां कृतवान्।
उपराष्ट्रपतिना एक्स-पोस्ट् इत्यत्र लिखितम्, अद्य जे.पी. नड्डामहोदयस्य निवासस्थाने तेन सह मया साक्षात्कार: कृत: तथा च तस्य स्वास्थ्यस्य समाचारः ज्ञातः। तस्य शीघ्रस्वास्थ्यलाभस्य, उत्तमस्वास्थ्यस्य कल्याणस्य च कामनां करोमि।
उल्लेखनीयमस्ति यत् जे.पी. नड्डायाः अस्वस्थतायाः वक्षसि असहजतायाश्च सूचनायाः अनन्तरं १३ अगस्तमासे नवदिल्ली इत्यत्र स्थिते अखिलभारतीय-आयुर्विज्ञान-संस्थाने प्रवेशः कारितः आसीत्। तस्य कोरोनरी-एन्जियोग्राफी इति परीक्षणं कृतम्। १९ अगस्तमासे तस्य एम्स्-तः अवकाश: अभवत्।
Hindusthan Samachar / Divya Ranjan