मोहनयादवः शनिवासरे ई.टी. वर्ल्ड लीडर्स फोरम-२०२६ इत्यस्मिन् मध्यप्रदेशस्य विकासस्य निवेशसम्भावनानां च विषये संवादं करिष्यति
भोपालम्, २१ अगस्तमासः (हि.स.)। नवदेहल्यां आयोजिते ई.टी. वर्ल्ड लीडर्स फोरम-२०२६ इत्यस्मिन् मध्यप्रदेशस्य औद्योगिकक्षमता, निवेशावसराः विकाससम्भावनाः च वैश्विकमञ्चे प्रस्तुताः भविष्यन्ति। शनिवासरे, २२ अगस्तमासे मुख्यमन्त्री डॉ. मोहनयादवः ‘एम.पी.: अनल
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, २१ अगस्तमासः (हि.स.)। नवदेहल्यां आयोजिते ई.टी. वर्ल्ड लीडर्स फोरम-२०२६ इत्यस्मिन् मध्यप्रदेशस्य औद्योगिकक्षमता, निवेशावसराः विकाससम्भावनाः च वैश्विकमञ्चे प्रस्तुताः भविष्यन्ति। शनिवासरे, २२ अगस्तमासे मुख्यमन्त्री डॉ. मोहनयादवः ‘एम.पी.: अनलॉकिङ्ग द हार्ट ऑफ इण्डिया’ इति सत्रे प्रदेशस्य आर्थिक-औद्योगिक-विकासयात्रायाः विषये स्वविचारान् प्रकटयिष्यति।

जनसम्पर्काधिकारी सञ्जयसक्सेनः शुक्रवासरे सूचनां दत्त्वा अवदत् यत् ई.टी. वर्ल्ड लीडर्स फोरम-२०२६ इत्यस्य आयोजनं २१ तथा २२ अगस्तमासयोः नवदिल्ली इत्यत्र क्रियमाणम् अस्ति। देशस्य विश्वस्य च प्रमुखोद्योगपतिभिः, नीतिनिर्मातृभिः वैश्विकविशेषज्ञैश्च सहभागितायुक्ते अस्मिन् प्रतिष्ठिते मञ्चे मध्यप्रदेशस्य विकाससम्भावनानाम्, निवेशावसराणां तथा औद्योगिकक्षेत्रे राज्यस्य नूतनदिशायाः विषये विशेषचर्चा भविष्यति। मञ्चस्य द्वितीये दिने, २२ अगस्तमासे ‘एम.पी.: अनलॉकिङ्ग द हार्ट ऑफ इण्डिया’ इति विषये विशेषं फायरसाइड-सम्भाषणं भविष्यति। तस्मिन् मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशस्य आर्थिक-औद्योगिकविकासयात्रायाः, निवेशसम्भावनानां तथा राज्यं देशस्य प्रमुखविकासकेन्द्ररूपेण स्थापयितुं क्रिय-माणानां प्रयासानां विषये स्वविचारान् प्रकटयिष्यति। इदं सत्रं राष्ट्रियान्ता-राष्ट्रियनिवेशकानां उद्योगजगतः प्रतिनिधीनां च समक्षं मध्यप्रदेशस्य सम्भावनाः प्रस्तुतुं महत्त्वपूर्णः अवसरः भविष्यति।

वस्त्रोद्योगक्षेत्रे मध्यप्रदेशस्य नूतनाः सम्भावनाः

तेन कथितं यत् ई.टी. वर्ल्ड लीडर्स फोरम इत्यस्मिन् मध्यप्रदेशस्य वस्त्रोद्योगक्षेत्राय अपि विशेषस्थानं प्रदत्तम् अस्ति। २२ अगस्तमासे ‘वीविङ्ग द फ्यूचर: बिल्डिङ्ग एन इन्टिग्रेटेड टेक्सटाइल वैल्यू चेन इन एम.पी.’ इति विषये विशेषं सत्रं भविष्यति। अस्मिन् उद्योगसचिवः जॉन किङ्ग्सली, ओरिएण्ट क्राफ्ट-संस्थापकः सुधीर-धीङ्गरा तथा पी.डब्ल्यू.सी. इण्डियायाः रानेन बनर्जी च सहभागितां करिष्यन्ति। अस्मिन् सत्रे मध्यप्रदेशे एकीकृत-वस्त्रोद्योग-मूल्यशृङ्खलायाः विकासस्य, उद्योगानां विस्तारस्य तथा निवेशसम्भावनानां विषये चर्चा भविष्यति।

वैश्विक-आर्थिकपरिदृश्यस्य नूतनावसराणां च विषये मन्थनम्

जनसम्पर्काधिकारिणा कथितं यत् फोरम इत्यस्मिन् कृत्रिमबुद्धिमत्ता, वैश्विकपूञ्जी, नूतनार्थव्यवस्था, ऊर्जासंक्रमणम्, व्यापारः आपूर्तिशृङ्खला च, भारत-अमेरिकयोः सम्बन्धाः तथा वैश्विकनिवेशः इत्यादीनां विषयाणाम् आधारेण प्रमुखसत्राणाम् आयोजनमपि क्रियमाणम् अस्ति। ई.टी. वर्ल्ड लीडर्स फोरम-२०२६ मध्यप्रदेशस्य निवेशक्षमतायाः, औद्योगिकावसराणां विभिन्नक्षेत्रेषु उपलब्धानां सम्भावनानां च राष्ट्रीयवैश्विक-उद्योगजगतः समक्षं प्रभावीप्रस्तुत्यै महत्त्वपूर्णं मञ्चं सिद्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan