राष्ट्रीयसफाईकर्मचारी-आयोगस्य ३२तमः स्थापनादिवसः रविवासरे
नवदेहली, २१ अगस्तमासः (हि.स.)। राष्ट्रियसफाईकर्मचारी-आयोगस्य (एनसीएसके) ३२तमः स्थापनादिवस-कार्यक्रमः रविवासरे देहलीस्थिते कॉन्स्टिट्यूशन-क्लब-ऑफ-इण्डिया इत्यत्र आयोजयिष्यते। अस्मिन् कार्यक्रमे प्रायः ९०० कर्मचारिणां सहभागितायाः सम्भावना अस्ति। केन
एनसीएसके के उपाध्यक्ष हरदीप सिंह गिल के साथ अन्य लोग मौैजूद।


नवदेहली, २१ अगस्तमासः (हि.स.)। राष्ट्रियसफाईकर्मचारी-आयोगस्य (एनसीएसके) ३२तमः स्थापनादिवस-कार्यक्रमः रविवासरे देहलीस्थिते कॉन्स्टिट्यूशन-क्लब-ऑफ-इण्डिया इत्यत्र आयोजयिष्यते। अस्मिन् कार्यक्रमे प्रायः ९०० कर्मचारिणां सहभागितायाः सम्भावना अस्ति।

केन्द्रीय-सामाजिकन्याय-अधिकारिता-मन्त्रालयानुसारम् अस्य कार्यक्रमस्य मुख्योद्देश्यः सफाईकर्मचारिभ्यः गरिमा, कल्याणम्, पुनर्वासः तथा सामाजिकसुरक्षा प्रदातुम् अस्ति। एतदतिरिक्तं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वाधीनस्य शासनस्य कल्याणकारी-उपक्रमाणां कार्यान्वयने अपि ध्यानं केन्द्रितं करिष्यते।

अस्मिन् दिने सर्वेषां हितधारकाणां कृते एनसीएसके-मिस्ड-कॉल-सुविधा-सङ्ख्या अपि जारी करिष्यते, येन आयोगः आह्वानकर्तृभिः सह सम्पर्कं कृत्वा तेषां शिकायताः, विषयाः तथा अभ्यावेदनानि पञ्जीकर्तुं शक्नुयात् तथा समयबद्धरीत्या तेषां समाधानं कर्तुं शक्नुयात्।

अस्मिन् अवसरे एनसीएसके-उपाध्यक्षः हरदीपसिंहगिलः, केन्द्रीय-विधि-न्याय-राज्यमन्त्री अर्जुनराममेघवालः, सामाजिकन्याय-अधिकारिता-राज्यमन्त्री रामदास-अठावले तथा बी.एल. वर्मा, एनसीएसके-सदस्यः करमसिंहकर्मा, एनसीएसके-सचिवः राहुलकश्यपः तथा अन्ये अनेके वरिष्ठाधिकारिणः अपि उपस्थिताः भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani