Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 अगस्तमासः (हि.स.)। केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः शुक्रवासरे ऑस्ट्रेलियादेशस्य जलवायुपरिवर्तनऊर्जामन्त्री क्रिसबोवेन इत्यनेन सह आभासीयम् उपवेशनम् अकरोत्। उपवेशने अस्मिन् वर्षे आयोज्यमानस्य संयुक्तराष्ट्रजलवायुसम्मेलनस्य सीओपी ३१ इत्यस्य पूर्वं जलवायुपरिवर्तनसम्बद्धेषु प्रमुखेषु विषयेषु वैश्विकजलवायुवार्तासु च विचारविनिमयः कृतः।
उपवेशनस्य समये उभौ नेतारौ जलवायुपरिवर्तनस्य आव्हानस्य सम्मुखीकरणाय वैश्विकस्तरे सहयोगस्य प्रभाविण्याः जलवायुक्रियायाश्च आवश्यकतायाः विषये चर्चां कृतवन्तौ। भूपेन्द्रयादवः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं जलवायुपरिवर्तनस्य आव्हानस्य सम्मुखीकरणाय वैश्विकप्रयासेषु निरन्तरं समाधानस्य भागीदारः अभवत्।
सः जलवायुक्रियायां भारतस्य प्रतिबद्धतां पुनः प्रतिपादयन् अवदत् यत् जलवायुपरिवर्तनस्य निवारणाय सर्वेषां देशानां मध्ये सहयोगः सामूहिकप्रयासश्च आवश्यकौ स्तः। वैश्विकजलवायुलक्ष्याणां प्राप्त्यर्थं भारतं स्वस्य उत्तरदायित्वपूर्णां भूमिकां निरन्तरं निर्वक्ष्यति।
ऑस्ट्रेलियादेशस्य जलवायुपरिवर्तनऊर्जामन्त्री क्रिसबोवेनः जलवायुपरिवर्तनस्य निवारणाय दीर्घकालिकसमाधानानां विकासस्य दिशि भारतस्य सकारात्मकदृष्टिकोणस्य सहयोगात्मकभूमिकायाश्च प्रशंसां कृतवान्।
उभौ नेतारौ जलवायुपरिवर्तनसम्बद्धेषु विषयेषु भारतऑस्ट्रेलियादेशयोः मध्ये सहयोगं अधिकं सुदृढं कर्तुं तथा आगामीषु वैश्विकजलवायुवार्तासु मिलित्वा कार्यं कर्तुं प्रतिबद्धतां प्रकटितवन्तौ। सीओपी ३१ इत्यस्य पूर्वं उभयोः देशयोः मध्ये जलवायुसम्बद्धसमन्वयस्य सुदृढीकरणस्य दिशि इदं उपवेशनम् महत्त्वपूर्णं मन्यते।
------------
Hindusthan Samachar / Dheeraj Maithani