Enter your Email Address to subscribe to our newsletters

जैसीनगरे जनसमस्यासमाधानशिविरम् आयोजितं, मंत्रिणः उपस्थितौ श्रुताः क्षेत्रवासिभ्यः समस्याः
भोपालम्, 21 अगस्तमासः (हि.स.)।
मुख्यमन्त्रिणः डॉ मोहन यादवस्य नेतृत्वे प्रदेशसर्वकारेण सामान्यजनानां समस्याः प्रत्यक्षं श्रुत्वा तासां शीघ्रसमाधानस्य उद्देश्येन मुख्यमन्त्रिणः जनविश्वासाभियानम् आरब्धम् अस्ति। अस्यैव क्रमे शुक्रवारदिने जैसीनगरे जनविश्वासाभियानस्य अन्तर्गतं जनसमस्यासमाधानशिबिरम् आयोजितम्। शिबिरे खाद्यनागरिकापूर्त्युपभोक्तृसंरक्षणमन्त्री गोविन्दसिंहराजपूतः, जिलाधिकारी, आरक्षीअधीक्षकः, जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी तथा विभिन्नविभागानां पदाधिकारिणः उपस्थिताः आसन्।
शिबिरे क्षेत्रवासिनः स्वसमस्याः आवेदनानि च पदाधिकारिणां समक्षं प्रस्तुतवन्तः। मन्त्री राजपूतः उक्तवान् यत् भारतीयजनतापक्षस्य सर्वकारे जनसेवा जनकल्याणं च सर्वोच्चप्राथमिकतायां वर्तेते। सर्वकारस्य प्रयासः अस्ति यत् योजनानां लाभः समाजस्य अन्तिमपङ्क्तौ स्थिताय पात्राय जनाय प्राप्नुयात् तथा सामान्यजनैः स्वकार्येषु अनावश्यककष्टं न सोढव्यम्।
प्रत्येकं शुक्रवासरे भविष्यति जनसमस्यासमाधानशिबिरम्
मन्त्री राजपूतः उक्तवान् यत् मुख्यमन्त्रिणः जनविश्वासाभियानं केवलं समस्याश्रवणस्य कार्यक्रमः नास्ति, अपि तु जनतायाः सर्वकारस्य च मध्ये विश्वासं सुदृढीकर्तुं माध्यमम् अस्ति। तेन सूचितं यत् प्रत्येकं शुक्रवासरे शिबिराणि आयोजितानि भविष्यन्ति, येषु विभिन्नविभागानां पदाधिकारिणः उपस्थिताः भूत्वा जनानां समस्याः समाधास्यन्ति। इदम् अभियानं जनवरीमासपर्यन्तं जिलास्तरे खण्डस्तरे च प्रचलिष्यति।
तेन उक्तं यत् आयुष्मान्पत्रस्य, सम्बलपत्रस्य, लाड़लीबहनायोजनायाः, प्रधानमन्त्रिणः आवासयोजनायाः तथा मुख्यमन्त्रिणः हेल्पलाइन १८१ इत्यस्य सम्बन्धितानां समस्यानामपि समाधानं एतेषां शिबिराणां माध्यमेन कारयितुं शक्यते। तेन भारतीयजनतापक्षस्य कार्यकर्तृभ्यः आह्वानं कृतं यत् ते आवश्यकतावशात् पीडितान् जनान् शिबिरं प्रति आनयन्तु, येन तेषां समस्याः समये एव समाधातुं शक्यन्ते।
प्रत्येकं पात्रजनं योजनानां लाभेन योजयितुं सङ्कल्पः
मन्त्री राजपूतः उक्तवान् यत् दरिद्राणां कृषकाणां महिलानां युवानां वञ्चितवर्गस्य च कल्याणाय केन्द्रसर्वकारेण राज्यसर्वकारेण च अनेकाः योजनाः सञ्चाल्यन्ते। प्रधानमन्त्रिणः आवासयोजना, आयुष्मान्भारतम्, किसानसम्माननिधिः, उज्ज्वलायोजना, हरघरनलजलयोजना तथा लाड़लीबहनायोजना इत्यादीनां योजनानां उद्देश्यं पात्रहितग्राहिभ्यः प्रत्यक्षं लाभं प्रदातुम् अस्ति।
तेन उक्तं यत् काचित् योजना तदैव सार्थिका भवति, यदा तस्याः लाभः वास्तविकहितग्राहिणे प्राप्नोति। जनविश्वासाभियानस्य माध्यमेन जनानां समस्याः श्रुत्वा सम्बन्धितविभागान् तासां समाधानाय उत्तरदायिनः क्रियन्ते।
सुरखीविधानसभाक्षेत्रे विकासेन सह जनसेवायै बलम्
गोविन्दसिंहराजपूतः उक्तवान् यत् सुरखीविधानसभाक्षेत्रं तस्य कृते परिवारवत् अस्ति तथा क्षेत्रस्य विकासः तस्य प्राथमिकता वर्तते। मार्गाणां, नालिकानां, पेयजलस्य, विद्युतः, शिक्षायाः, स्वास्थ्यस्य, आवासस्य च मूलभूतसुविधानां विस्तारस्य सह ग्रामे ग्रामे विकासकार्याणि गतिं प्राप्नुवन्ति। तेन उक्तं यत् विकासः केवलं बृहत्निर्माणकार्येषु सीमितः नास्ति। कस्यचित् परिवारस्य समस्यायाः समाधानं भवेत्, पात्रजनाय योजनायाः लाभः प्राप्नुयात्, कृषकस्य समस्या दूरीक्रियेत, महिला युवा च अग्रे गन्तुं अवसरं प्राप्नुयाताम् इत्यादिकमपि विकासस्य भागः अस्ति।
जिलाधिकारिणी प्रतिभापालेन प्राकृतिककृषेः प्रोत्साहनस्य सह ग्रामेषु स्वच्छतायाः विकासकार्येषु च जनसहभागितायाः विषये बलं दत्तम्। आरक्षीअधीक्षकः अनुरागसुजानियाः उक्तवान् यत् ग्रामाणां लघुविवादानां समस्याणां च समाधाने ग्रामपञ्चायतस्य वृद्धजनानां च सहभागिता महत्त्वपूर्णा अस्ति। तेन क्षेत्रवासिभ्यः विश्वासः प्रदत्तः यत् आरक्षीविभागः चतुर्विंशतिः होराः तेषां सेवायै उपलब्धः अस्ति।
मन्त्री राजपूतः क्षेत्रवासिभ्यः आह्वानं कृतवान् यत् ते जनविश्वासाभियानस्य शिबिरेषु अधिकाधिकसंख्यया समागत्य स्वसमस्याः आवेदनानि च पदाधिकारिणां समक्षं प्रस्तुतयन्तु। तेन उक्तं यत् जनसमस्यानां गम्भीरतया श्रवणं नियमानुसारं तासां समाधानं च प्रशासनस्य जनप्रतिनिधीनां च उत्तरदायित्वम् अस्ति। कार्यक्रमे जनप्रतिनिधिभिः सह विभिन्नविभागानां पदाधिकारिणः बहुसंख्याकाः क्षेत्रवासिनश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani