केन्द्रीय मंत्रिणो कल्याण सिंहस्य पुण्यतिथौ दत्तः श्रद्धांजलिः
नव दिल्ली, 21 अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः सहिताः अनेके नेतारः शुक्रवासरे उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः कल्याणसिंहस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवन्तः। अमितशाहः एक्स
प्रतीकात्मक


नव दिल्ली, 21 अगस्तमासः (हि.स.)।

केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः सहिताः अनेके नेतारः शुक्रवासरे उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः कल्याणसिंहस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवन्तः।

अमितशाहः एक्स इति सामाजिकमाध्यमे अवदत्, “उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः कल्याणसिंहस्य पुण्यतिथौ अहं तं कोटिशः प्रणमामि। उत्तरप्रदेशे अपराधमुक्तप्रशासनस्य प्रारम्भं कृत्वा कल्याणसिंहेन राज्ये सुशासनं धरातले स्थापयितुं कार्यं कृतम्। स्वसिद्धान्तेभ्यः कृते सत्तां त्यक्तवता बाबूजी इत्याख्येन तेन सिद्धं कृतं यत् तस्य कृते राष्ट्रहितमेव सर्वोपरि आसीत्। सङ्गठनात् आरभ्य सर्वकारपर्यन्तं तस्य सम्पूर्णं जीवनं प्रत्येकस्य कार्यकर्तुः कृते प्रेरणादायकम् अस्ति।”

राजनाथसिंहः अवदत् यत् कल्याणसिंहः भारतीयराजनीतेः एकः सशक्तः स्तम्भः सिद्धान्तनिष्ठश्च नेता आसीत्, यः स्वजीवनं राष्ट्रहिताय सुशासनाय जनसेवायै च समर्पितवान्। उत्तरप्रदेशे भारतीयजनतापक्षस्य स्थापनायै तं जनजनं प्रति प्रापयितुं च तेन अत्यन्तं महत्त्वपूर्णं योगदानं प्रदत्तम्।

केन्द्रीयकृषिमन्त्री तथा कृषककल्याणमन्त्री शिवराजसिंहचौहानः अवदत् यत् श्रीरामजन्मभूम्याः आन्दोलनस्य सूत्रधारं उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणं राजस्थानस्य हिमाचलप्रदेशस्य च पूर्वराज्यपालं ‘पद्मविभूषण’ इत्युपाधिना सम्मानितं कल्याणसिंहं तस्य पुण्यतिथौ शतशः प्रणमामि। राष्ट्रस्य प्रगतेः प्रति समर्पणाय समाजस्य निःस्वार्थसेवायै च ‘बाबूजी’ इति स्नेहेन सम्बोध्यमानः कल्याणसिंहः सदैव स्मरिष्यते।

केन्द्रीयसामाजिकन्यायाधिकारितामन्त्री डॉ. वीरेन्द्रकुमारः अवदत् यत् ‘पद्मविभूषण’ कल्याणसिंहस्य सामाजिकसांस्कृतिकमूल्येषु राष्ट्रे च समर्पितं जीवनं सर्वेषां कृते अनुकरणीयम् अस्ति। समाजस्य सर्वेषां वर्गाणाम् उत्थानाय तेन कृताः प्रयासाः भाविसन्ततीनाम् अपि सदैव प्रेरणां प्रदास्यन्ति।

केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः पद्मविभूषणकल्याणसिंहस्य पुण्यतिथौ तस्मै कोटिशः प्रणामान् समर्पितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani