भाजपाकार्यकर्तारः प्रदेशे समग्रे समाचरिता कल्याण सिंहस्य पुण्यतिथिः
लखनऊ, 21 अगस्तमासः (हि.स.)। भारतीयजनतापक्षेण पूर्वराज्यपालस्य पूर्वमुख्यमन्त्रिणः च कल्याणसिंहस्य पुण्यतिथौ शुक्रवासरे प्रदेशस्य राजधानीलखनऊसहितं प्रदेशस्य सर्वेषु जनपदेषु कल्याणसिंहस्य प्रतिमायां चित्रे च पुष्पार्चनं कृत्वा श्रद्धापूर्वकं नमनं कृ
भाजपा प्रदेश कार्यालय में कल्याण सिंह को पुष्पांजलि अर्पित करते प्रकाश पाल


लखनऊ, 21 अगस्तमासः (हि.स.)।

भारतीयजनतापक्षेण पूर्वराज्यपालस्य पूर्वमुख्यमन्त्रिणः च कल्याणसिंहस्य पुण्यतिथौ शुक्रवासरे प्रदेशस्य राजधानीलखनऊसहितं प्रदेशस्य सर्वेषु जनपदेषु कल्याणसिंहस्य प्रतिमायां चित्रे च पुष्पार्चनं कृत्वा श्रद्धापूर्वकं नमनं कृतम्। भाजपापिछडावर्गमोर्चायाः प्रदेशाध्यक्षेण प्रकाशपालेन पक्षस्य पदाधिकारिभिः कार्यकर्तृभिश्च सह भाजपाप्रदेशकार्यालये नगरनिगमपरिसरे च स्थितायाः बाबूकल्याणसिंहस्य प्रतिमायाः पुष्पार्चनं कृत्वा तस्मै श्रद्धाञ्जलिः अर्पिता।

भाजपापिछडावर्गमोर्चायाः प्रदेशाध्यक्षः प्रकाशपालः अस्मिन् अवसरे अवदत् यत् कल्याणसिंहः राजनीतिक्षितिजस्य ध्रुवतारासदृशः आसीत्। मुख्यमन्त्रिरूपेण तस्य पारदर्शिशासनव्यवस्था दरिद्रकल्याणाय च कृतानि कार्याणि प्रदेशस्य जनैः सदैव स्मरिष्यन्ते। सः परमः रामभक्तः आसीत् तथा राममन्दिरान्दोलनस्य प्रमुखेषु नायकेषु अन्यतमः आसीत्। सः सर्वेषां जातीनां धर्माणां सम्प्रदायानां विचारधाराणां च सम्मानं करोति स्म।

तस्य कार्यकाले सुदृढां कानूनव्यवस्थां तथा गुण्डानां माफियाजनानां च प्रति शून्यसहिष्णुतायाः नीतिं जनाः अद्यापि स्मरन्ति। सः दरिद्राणां पिछडावर्गीयानां दलितानां वञ्चितानां युवानां महिलानां कृषकाणां सर्वसमाजस्य च सर्वमान्यः नेता आसीत्।

प्रदेशकार्यालये स्थिते अन्यपिछडावर्गमोर्चायाः कार्यालये श्रद्धाञ्जलिं प्रदातृषु प्रमुखतया प्रदेशकार्यालयसचिवः भारतदीक्षितः, लक्ष्मणचौधरी, अनुसूचितमोर्चायाः प्रदेशाध्यक्षः सांसदः अशोकरावत्, प्रदेशमहामन्त्री तथा प्रभारी पिछडावर्गमोर्चा सञ्जयरायः, प्रदेशोपाध्यक्षः पिछडावर्गमोर्चा बाबाबालकदासः, पिछडावर्ग आयोगस्य सदस्यः रमाशंकरसाहुः, रामशंकरराजपूतः, राजेशयादवः, श्रीकान्तयादवः इत्यादयः प्रमुखरूपेण उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani