कल्याणसिंहेन सत्ता त्यक्ता, किन्तु रामभक्तेषु गुटिकाः न प्रहारिताः - योगी आदित्यनाथः
लखनऊम्, २१ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः कल्याण-सिंहस्य पुण्यतिथेः अवसरे शुक्रवासरे अटल-बिहारी-वाजपेयी-इकाना-क्रीडाङ्गणे आयोजिते कार्यक्रमे सम्बोधनं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशस्य जनतायाः पक्षत
कार्यक्रम में बोलते हुए मुख्यमंत्री योगी आदित्यनाथ


लखनऊम्, २१ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः कल्याण-सिंहस्य पुण्यतिथेः अवसरे शुक्रवासरे अटल-बिहारी-वाजपेयी-इकाना-क्रीडाङ्गणे आयोजिते कार्यक्रमे सम्बोधनं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशस्य जनतायाः पक्षतः अहं बाबूजी-महोदयस्य चरणयोः विनम्रां श्रद्धाञ्जलिं समर्पयामि।

अस्मिन् अवसरे मुख्यमन्त्री योगी अवदत् यत् कल्याणसिंहेन प्रभुश्रीरामस्य कृते स्वसत्ता त्यक्ता, किन्तु रामभक्तेषु गोलिकाः न प्रहारिताः। रामजन्मभूम्याः आन्दोलनं स्मरत। तेन संघर्षः स्वीकरणीयः इति उक्तम्। सत्ता दूरे भवतु, एतदपि स्वीकरणीयम्, किन्तु प्रभुश्रीरामस्य अपमानः न स्वीकरणीयः। अद्य यदा अयोध्यायां भव्यं राममन्दिरं पश्यामः तदा बाबू कल्याणसिंहस्य स्मृतिः जीवन्ती भवति।

मुख्यमन्त्री अवदत् यत् मम दीर्घकालं यावत् बाबू कल्याणसिंहेन सह विभिन्नेषु कार्यक्रमेषु उपस्थितेः अवसरः प्राप्तः। ‘अद्य हिन्दूगौरवदिवसः अस्ति। बाबूजी-महोदयस्य स्मृतयः अस्माकं कृते प्रेरणाः सन्ति। मनुष्यः स्वकर्मभिः महान् भवति।’ अतरौली-नगरे सामान्ये कृषककुले जन्म प्राप्तवान् बाबूजी स्वकर्मठतया देशस्य प्रति समर्पणभावेन च राष्ट्रीयस्वयं-सेवकसङ्घस्य पाठशालायां तप्तः स्वयंसेवकरूपेण, कृषकरूपेण, शिक्षकस्य, विधायकस्य, सांसदस्य, मन्त्रिणः, मुख्यमन्त्रिणः राज्यपालस्य च रूपेण संवैधानिकदायित्वानि कुशलतया निर्वाहितवान्।

योगी आदित्यनाथः अवदत् यत् कल्याणसिंहस्य जीवनं प्रत्येकं तस्य भारतीयस्य कृते, यस्य कृते भारतं प्रथमम्, सनातनमूल्यानि प्रथमं तथा राष्ट्रप्रथमस्य भावः अस्ति, सदैव प्रेरणास्रोतः भविष्यति। तस्य जीवनं सरलतया, तपसा साधनया च परिपूर्णम् आसीत्। सः सदैव सनातनमूल्यानां रक्षणं कुर्वन् दरिद्राणां, अन्नदातॄणां कृषकाणां यूनां च कृते स्वजीवनं समर्पितवान्। मुख्यमन्त्री अवदत् यत् बाबूजी-महोदयेन कदापि अनुचितं कार्यं कारयितुं न शक्यते स्म। सः कथयति स्म—‘कल्याणसिंहः भङ्क्तुं शक्नोति, किन्तु न नमितुं शक्नोति।’ गिरगिट् इव वर्णं परिवर्तयतां पीडीए इत्यस्य अर्थः प्रतिदिनं परिवर्तते। एकस्मिन् दिने ‘पी’ इत्यस्य अर्थः पाकिस्तानम् अपि भविष्यति।

मुख्यमन्त्री योगी अवदत् यत् गतनववर्षेषु त्रीणां पूर्वमुख्यमन्त्रिणां निधनं जातम्। कल्याणसिंहस्य निधनसमये स्वयं प्रधान-मन्त्री नरेन्द्रमोदी सर्वान् कार्यक्रमान् निरस्य लखनऊम् आगतवान्। अस्माकं कृते एतत् दुःखदं आसीत् यत् सामान्यशिष्टाचारः अपि पालितः न अभवत्। बसपाप्रमुखा मायावती आगत्य बाबूजी-महोदयाय श्रद्धाञ्जलिं समर्पितवती, किन्तु समाजवादीपार्टीप्रमुखः बाबूजी-महोदयाय प्रत्यक्षम् आगत्य श्रद्धाञ्जलिं समर्पयितुं तु दूरम्, शब्दैः अपि श्रद्धाञ्जलिं न व्यक्तवान्। एतस्मात् अधिकः अपमानः कः भवितुम् अर्हति?

योगी अवदत् यत् बाबूजी-महोदयस्य जीवनं सनातनमूल्येभ्यः समर्पितम् आसीत्। कल्याणसिंहेन उत्तरप्रदेशे सुशासनस्य आधारशिला स्थापिता। बाबूजी-महोदयेन युवभ्यः मञ्चः प्रदत्तः। उत्तरप्रदेशाय एकः विशिष्टः परिचयः प्रदत्तः। सनातनमूल्यानां रक्षणं कुर्वन् अयोध्यायां दासत्वस्य संरचनां पातयित्वा राममन्दिरनिर्माणस्य मार्गः प्रशस्तीकृतः। बाबूजी-महोदयेन यद् उक्तं तत् कृत्वा दर्शितम्। द्विइञ्जिन-सर्वकारः कल्याण-सिंहस्य स्वप्नानि साकारयिष्यति।

अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, संसदीयकार्यमन्त्री सुरेश-खन्ना, कृषिमन्त्री सूर्यप्रतापशाही, पशुधनमन्त्री धर्मपालसिंहः, मूलशिक्षामन्त्री सन्दीपसिंहः, सांसदः राजबीरसिंहराजू, उन्नावस्य सांसदः सच्चिदानन्द-हरिसाक्षीमहाराजः, भाजपायाः पृष्ठवर्ग-मोर्चायाः प्रदेशाध्यक्षः प्रकाशपालः प्रमुखतया उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan