Enter your Email Address to subscribe to our newsletters

जम्मूः, 21 अगस्तमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा अद्य शेर-ए-कश्मीर-कृषिविज्ञान-प्रौद्योगिकी-विश्वविद्यालये जम्मू इत्यत्र नूतनानाम् आधारभूतसंरचनासुविधानाम् उद्घाटनम् अकरोत्। सः जेकेसीआईपी इत्यस्य अन्तर्गतं ‘स्टार्टअप् आउटरीच् प्रोग्राम्’ इत्यस्य शुभारम्भावसरे जनान् सम्बोधितवान्।
अस्मिन् कार्यक्रमे जम्मूविभागस्य अनुसन्धानकर्तारः, नवोन्मेषकर्तारः, युवा उद्यमिनः कृषकाः च सम्मिलिताः अभवन्। नवप्रारब्धासु सुविधासु उन्नतिगर्ल्स् छात्रावासः, कृषिक्षेत्रे कृत्रिमबुद्धिमत्तायाः यन्त्राधिगमस्य च केन्द्रम्, मशरूम् अनुसन्धाननवोन्मेषकेन्द्रम्, उन्नतरेशमकीटपालनप्रयोगशाला, डिजिटलमाध्यमप्रकाशनकेन्द्रं च सम्मिलितानि सन्ति।
अस्मिन् अवसरे भाषमाणः उपराज्यपालः उक्तवान् यत् एताः नूतनाः सुविधाः केवलं भौतिकाधारभूतसंरचनाः न सन्ति। एताः क्षेत्रस्य नवोन्मेषकर्तृभ्यः, उद्यमिभ्यः, अनुसन्धानकर्तृभ्यः, कृषककुटुम्बेभ्यश्च प्रतिबद्धतायाः प्रतीकानि सन्ति। उपराज्यपालः प्रौद्योगिक्याधारितकृषेः वैश्विकान् उदाहरणान् उल्लिखितवान्। तेन नीदरलैण्ड्देशे स्थितस्य दुग्धव्यवसायनवोन्मेषकेन्द्रस्य उल्लेखः कृतः, यत् कृत्रिमबुद्धिमत्ताधारितपोषणस्य पशुस्वास्थ्यसमाधानानां च विषये वैज्ञानिकान्, कम्पनीः, कृषकान् च एकत्र आनयति। इजरायल्देशे कृषौ दुग्धव्यवसाये च दत्तांशस्य बुद्धिमत्प्रबन्धनस्य एकीकरणम्, न्यूजीलैण्ड्देशे पशुपालने डिजिटलोपक्रमाः, ब्राजील्देशस्य एकं सिञ्चननवोन्मेषप्रतिष्ठानं च तेन उल्लिखितम्, येन कृषकस्य दैनिकसमस्यायाः व्यापकस्तरे प्रयोज्यमानं समाधानं विकसितम्।
उपराज्यपालः उक्तवान् यत् एतेषाम् उदाहरणानां सन्देशः स्पष्टः अस्ति यत् कृषिः तत्सम्बद्धाः क्षेत्राणि च विश्वे नवोन्मेषस्य कृते अग्रणीक्षेत्राणि भवन्ति। सः जम्मू-कश्मीरस्य युवभ्यः विदेशीयप्रतिमानानाम् अनुकरणं न कृत्वा स्वकीयान् क्षेत्रान्, कृषकान्, मौसमपरिस्थितिं, स्थानीयसमस्यान् च अवगन्तुं तथा क्षेत्रस्य विशिष्टानाम् आवश्यकतानाम् अनुरूपं समाधानं विकसितुं परामर्शं दत्तवान्।
सः उक्तवान् यत् अद्य सम्पूर्णं विश्वं कृषिक्षेत्रे तत्सम्बद्धेषु च क्षेत्रेषु नवोन्मेषाधारितानां नूतनसम्भावनानां निरन्तरं अन्वेषणं करोति। एतेषां नवोन्मेषप्रतिष्ठानानां नूतननवोन्मेषाणां च प्रमुखः सन्देशः अस्ति यत् कृषिः तत्सम्बद्धानि क्षेत्राणि च स्वयं नवोन्मेषस्य कृते अग्रिमं महत्त्वपूर्णं क्षेत्रं सन्ति। स्वस्य अग्रिमं समाधानं निर्मातुं भवद्भिः स्वक्षेत्राणां, कृषकाणां, मौसमस्य, स्थानीयसमस्यानां च अवगमनं करणीयम् तथा यत्र यथोचितं भवेत् तत्र तेषां प्रतिमानानां स्वकीयरीत्या अनुकूलनं करणीयम्। मम मतम् अस्ति यत् विभिन्नदेशैः स्वकीयसमस्यानां समाधानाय नवोन्मेषाः कृताः सन्ति, अधुना समयः आगतः यत् जम्मू-कश्मीरमपि स्वकीयप्रश्नानां चुनौतीनां च समाधानाय नवोन्मेषं कुर्यात्।
उपराज्यपालः भारतस्य परिवर्तमानानाम् रोजगाराकाङ्क्षाणाम् अपि विशेषरूपेण उल्लेखं कृतवान्। सः उक्तवान् यत् जम्मू-कश्मीरस्य युवानः अद्य रोजगाराय पङ्क्तौ स्थातुं अपेक्षया रोजगारस्य सृजने अधिकं ध्यानं ददति। सः उक्तवान् यत् आकाङ्क्षाणाम् एतादृशः परिवर्तनः ‘आत्मनिर्भरजम्मू-कश्मीर’ इत्यस्य संकल्पनायाः कृते अत्यन्तम् आवश्यकः अस्ति।
सः उक्तवान्, अहं सर्वेभ्यः छात्रेभ्यः वक्तुम् इच्छामि यत् भवतां उपाधिः भवतां गन्तव्यं नास्ति, अपितु भवतां सफलतायाः उड्डयनाय धावनपथः इव अस्ति। विश्वविद्यालयः भवद्भ्यः ज्ञानं प्रदास्यति, किन्तु भवतां जिज्ञासा भवद्भ्यः नूतनान् विचारान् अभिनवान् संकल्पान् च प्रदास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani