Enter your Email Address to subscribe to our newsletters

लखनऊ, 21 अगस्तमासः (हि.स.)।बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा मायावती वन्देमातरम् इति गीतस्य गायनसम्बन्धे प्रतिक्रियां दत्तवती। सा अवदत् यत् अस्मिन् विषये राजनीतिः करणं समुचितं नास्ति। जनानां ध्यानं विचलितुं नवीनाः सर्वकाराः स्वहिताय पूर्वसर्वकारैः निर्मितान् विधानान् निरन्तरं परिवर्तयन्ति।
मायावती शुक्रवासरे अवदत् यत् देशे वन्देमातरम् इति गीतं सम्पूर्णं गेयम् उत प्रारम्भिकौ द्वौ छन्दौ गेयौ, अथवा न गेयम् इति विषये सम्प्रति देशे या राजनीतिः प्रवर्तते, सा समुचिता नास्ति। अस्मिन् विषये अस्माकं पक्षस्य स्पष्टं मतम् अस्ति यत् वन्देमातरम् इति गीतस्य गायनसम्बन्धे अधुना एव संसदः द्वारा यः विधिः पारितः, एतादृशं कार्यं प्रथमवारं न भवति।
सा अवदत् यत् केन्द्रे राज्येषु च सत्तापरिवर्तनस्य समये सर्वाः राजनैतिकपक्षाः स्वराजनैतिकस्वार्थानुसारं वा स्वकीयदोषेभ्यः जनानां ध्यानं विचलितुं वा एतानि कार्याणि कुर्वन्ति। ते परस्परैः निर्मितान् विधानान् परिवर्तयन्ति।
सा अवदत् यत् सम्प्रति बेरोजगारयुवानां, ‘जेन जी’, ‘जी अल्फा’ इत्येतयोः समूहयोः तथा जलप्रलयादीनां अनेकानां विषयाणां प्रति ध्यानं दातुं आवश्यकता अस्ति। देशस्य जनहितस्य च दृष्ट्या समयस्य सर्वाधिकं आवश्यकं कार्यम् एतदेव अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani