महापौरः नवदिल्ली-रेलस्थानकात् ‘मॉस्किटो टर्मिनेटर ट्रेन-२०२६’ इति रेलयानं हरितध्वजं प्रदर्श्य प्रस्थापितवान्
नवदिल्ली, २१ अगस्तमासः (हि.स.)। दिल्ली इत्यत्र मशकजनितरोगाणां निवारणाय नियन्त्रणाय च देहली-महानगरपालिकायाः महापौरः प्रवेशवाही शुक्रवासरे नवदिल्ली-रेलस्थानकात् ‘मॉस्किटो टर्मिनेटर ट्रेन-२०२६’ (एमटीटी) इति रेलयानं हरितध्वजं प्रदर्श्य प्रस्थापितवान् त
महापौर प्रवेश वाही  ‘मॉस्किटो टर्मिनेटर ट्रेन-2026’ को हरी झंडी दिखाते हुए।


नवदिल्ली, २१ अगस्तमासः (हि.स.)। दिल्ली इत्यत्र मशकजनितरोगाणां निवारणाय नियन्त्रणाय च देहली-महानगरपालिकायाः महापौरः प्रवेशवाही शुक्रवासरे नवदिल्ली-रेलस्थानकात् ‘मॉस्किटो टर्मिनेटर ट्रेन-२०२६’ (एमटीटी) इति रेलयानं हरितध्वजं प्रदर्श्य प्रस्थापितवान् तथा अस्य अभियानस्य शुभारम्भं कृतवान्।

महापौरः प्रवेशवाही उक्तवान् यत् ‘मॉस्किटो टर्मिनेटर ट्रेन-२०२६’ दिल्ली-महानगर-पालिकायाः उत्तररेलवे च संयुक्ता सुनियोजिता च रोगवाहकजीवनियन्त्रण-अभियानम् अस्ति। अस्य अभियानात् पूर्वं देहली-महानगरपालिकया रेलमार्गेषु तेषां पार्श्ववर्तिषु क्षेत्रेषु च विशेषस्वच्छताभियानं सञ्चाल्य स्वच्छता कृता तथा सम्भावितानां मच्छरप्रजननस्थलानां च परिचयं कृतम्। अधुना अस्य अभियानस्य अग्रिमचरणे चिह्नितेषु संवेदनशीलेषु च क्षेत्रेषु मच्छराणां लार्वानां निवारकौषधानां व्यापकं सिंचनं क्रियते।

महापौरः अवदत् यत् ‘मॉस्किटो टर्मिनेटर ट्रेन-२०२६’ इत्यस्य प्रथमचरणे प्रायः ७५ किलोमीटर-परिमितः रेलमार्गः तस्य समीपवर्तिक्षेत्राणि च आच्छादितानि भविष्यन्ति। रेलपटर्योः उभयतः स्थितेषु निम्नप्रदेशेषु, जलप्लावितस्थलेषु सम्भावितेषु मशकप्रजननस्थलेषु च विशेषरूपेण लार्वानिवारकौषधानां सिंचनं करिष्यते। एतदर्थं शक्तिप्रचालक-छिड़काव-टैङ्कराणि रेलयानेन सह सञ्चालयिष्यन्ते, येन तेषु स्थलेष्वपि प्रभाविरूपेण औषधं प्रापयितुं शक्येत यत्र सामान्यतया मानवीयरूपेण गन्तुं कठिनं भवति।

तेन उक्तं यत् वर्षाकाले रेलमार्गस्य समीपे निम्नप्रदेशेषु च जलसञ्चयेन मशकानां प्रजननस्य सम्भावना वर्धते। अतः मशकानां प्रजननचक्रं प्रारम्भिकस्तरे एव विच्छेत्तुम् अस्य अभियानस्य प्रमुखम् उद्देश्यम् अस्ति। तेन उक्तं यत् अस्य विशेषाभियानस्य माध्यमेन डेंगू, मलेरिया, चिकनगुनिया इत्यादीनां मशकजनित-रोगाणां विरुद्धं दिल्ली-महानगर-पालिकायाः निवारणनियन्त्रण-क्रियाकलापाः अधिकप्रभाविणः क्रियन्ते।

महापौरः उक्तवान् यत् अभियानं केवलं निर्धारितमार्गे सीमितं न स्थापितम्, अपि तु चरणबद्धरूपेण देहल्याः विभिन्नान् महत्त्वपूर्णान् रेलमार्गान् आच्छादयिष्यति। निर्धारितकार्यक्रमानुसारं नवदेहलीतः राठधानां, आदर्शनगर-बादली, दिल्ली-जङ्क्शन, दिल्लीशाहदरा, हजरत-निजामुद्दीन, लाजपतनगर, सरायरुहिल्ला, पटेलनगर, सफदरजङ्ग, किशनगञ्ज, सदरविपणं, दिल्लीकैंट, पालम-गुडगांव, फरीदाबाद, ओखला-तुगलकाबाद इत्यादिषु विभिन्नेषु रेलमार्गेषु लार्वा-निवारकक्रियाकलापाः सञ्चालयिष्यन्ते।

तेन उक्तं यत् एतदभियानं सितम्बर-मासपर्यन्तं निर्धारितकार्यक्रमानुसारं प्रचलिष्यति तथा दिल्ली-महानगर-पालिकायाः उत्तररेलवे च दलानि परस्परसमन्वयेन विभिन्नेषु रेलक्षेत्रेषु मच्छरनियन्त्रणक्रियाकलापान् करिष्यन्ति। सम्बन्धिताः क्षेत्रीयदलानि स्वास्थ्याधिकारिणश्च अभियानस्य निरीक्षणं करिष्यन्ति, तदा प्रत्येकयात्रायां शक्तिप्रचालक-छिड़काव-टैङ्कराणां, जलस्य, आवश्यकस्य कीटनाशकस्य लार्वानाशकस्य च उपलब्धता सुनिश्चितं करिष्यते।

प्रवेशवाही उक्तवान् यत् निर्धारित-कार्यक्रमानुसारं सम्बन्धितक्षेत्रस्य सहायक-मलेरिया-धिकारिणा मलेरिया-अधीक्षकेण च प्रत्येकयात्रायै शक्ति-प्रचालक-सिंचन-टैङ्कर इत्यस्य, चालकस्य, जलस्य, आवश्यकस्य कीटनाशकस्य लार्वानाशकस्य च व्यवस्था सुनिश्चितं करिष्यते। सम्बन्धितक्षेत्रीय-उपस्वास्थ्याधिकारी महामारीविज्ञानी च अभियानस्य निरीक्षणं करिष्यतः तथा उत्तररेलवे सह समन्वयं स्थापयित्वा कार्यक्रमस्य सुचारुरूपेण क्रियान्वयनं सुनिश्चितं करिष्यतः।

तेन दिल्लीवासिभ्यः आह्वानं कृतं यत् स्वच्छतां केवलं निगमस्य दायित्वं न मन्यन्ताम्, अपि तु तां सामूहिकं दायित्वं कुर्वन्तु। तेन उक्तं यत् गृहेषु कार्यालयेषु समीपवर्तिषु क्षेत्रेषु च जलसञ्चयं न भवेत् इति सुनिश्चितं करणम्, शीतकयन्त्राणां जलप्रपाणां च नियमितं स्वच्छीकरणं करणम् तथा सम्भावितानां मशक-प्रजननस्थलानां निवारणं करणं प्रत्येकं नागरिकस्य दायित्वम् अस्ति।

अस्मिन् अवसरे जनस्वास्थ्याधिकारी अशोकरावतः तथा दिल्ली-महानगर-पालिकायाः उत्तररेलविभागस्य च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan