बाङ्ग्लादेशेन सह गङ्गाजलसन्धौ तकनीकीस्तरे चर्चा प्रचलति - विदेशमन्त्रालयः
नवदिल्ली, २१ अगस्तमासः (हि.स.)। भारत-बाङ्ग्लादेशयोः मध्ये १९९६ तमे वर्षे सम्पन्ना गङ्गाजलसन्धिः स्वस्य त्रिंशद्वर्षीय-कालं पूर्णं कर्तुम् अस्ति तथा सा अस्मिन्नेव वर्षे दिसम्बरमासे समाप्तिं गमिष्यति। विदेशमन्त्रालयस्य कथनमस्ति यत् गङ्गाजलसन्धिं विषय
India Bangladesh


नवदिल्ली, २१ अगस्तमासः (हि.स.)। भारत-बाङ्ग्लादेशयोः मध्ये १९९६ तमे वर्षे सम्पन्ना गङ्गाजलसन्धिः स्वस्य त्रिंशद्वर्षीय-कालं पूर्णं कर्तुम् अस्ति तथा सा अस्मिन्नेव वर्षे दिसम्बरमासे समाप्तिं गमिष्यति। विदेशमन्त्रालयस्य कथनमस्ति यत् गङ्गाजलसन्धिं विषये उभयोः देशयोः मध्ये तकनीकीस्तरे चर्चा प्रचलति।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः शुक्रवासरे अवदत् यत् गङ्गाजलसन्धौ १९९६ तमे वर्षे त्रिंशद्वर्षीयकालाय हस्ताक्षराणि कृतानि आसन्। भारत-बाङ्ग्लादेशयोः मध्ये नदीनां सम्बन्धितानां सर्वेषां विषयाणां चर्चा संयुक्तनदी-आयोगस्य अन्तर्गतं क्रियते। तदतिरिक्तं गङ्गाजलसन्धेः अन्तर्गतं गठितायाः संयुक्तसमितेः तकनीकीस्तरीया सभा नियमितरूपेण आयोज्यते।

उल्लेखनीयं यत् बाङ्ग्लादेशः गङ्गाजल-सन्धौ प्रत्याभूति-प्रावधानम् इच्छति। एतत् प्रावधानं १९७७ तमे वर्षे सम्पन्नायां सन्धौ आसीत्, किन्तु १९९६ तमे वर्षे सम्पन्नायां सन्धौ तत् निष्कासितम्। अस्य प्रावधानस्य अन्तर्गतं शुष्कर्तौ नदीप्रवाहे न्यूनता भवति चेत् अपि बाङ्ग्लादेशः न्यूनतमपरिमाणे जलस्य उपलब्धतां इच्छति।

Hindusthan Samachar / Divya Ranjan