Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ अगस्तमासः (हि.स.)। विदेशमन्त्रालयेन शुक्रवासरे अमेरिकीय-संस्था ‘यूनाइटेड् स्टेट्स् कमीशन ऑन इण्टरनेशनल रिलीजियस फ्रीडम्’ इत्यस्य विश्वसनीयतायाः विषये प्रश्नाः उत्थापिताः। मन्त्रालय़ेन उक्तं यत् अस्याः संस्थायाः भारतविरोधी-प्रचारस्य इतिहासः अस्ति।
विदेशमन्त्रालयस्य एतत् वक्तव्यं राष्ट्रीयस्वयंसेवकसङ्घस्य प्रमुखस्य मोहनभागवतस्य अमेरिकायात्रायाः विषये संस्थया कृतानां टिप्पणीनां सन्दर्भे अभवत्। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अद्य अवदत् यत् अस्याः संस्थायाः विषये सर्वे अवगताः सन्ति। सा पक्षपातपूर्णा अस्ति तथा च अनेकवर्षेभ्यः भारतस्य विषये अनुचितानि वक्तव्यानि कुर्वती आगता अस्ति। संस्थया भारतस्य विरुद्धं उत्तेजकानि वक्तव्यानि अपि पूर्वं कृतानि सन्ति। तस्याः न कापि साख् विश्वसनीयता वा अस्ति। ते केवलम् एतदेव वक्तुम् इच्छन्ति यत् अस्माभिः एतादृशीभ्यः संस्थाभ्यः दूरं स्थातव्यम्।
उल्लेखनीयं यत् यूएससीआईआरएफ् अमेरिका-देशे धार्मिकस्वतन्त्रतासम्बद्धेषु विषयेषु प्रतिवेदनानि अनुशंसाश्च प्रदात्री संस्था अस्ति। भारतसर्वकारः पूर्वमपि तस्याः अनेकानि प्रतिवेदनानि टिप्पणयश्च पक्षपातपूर्णानि इति कथयित्वा निरस्तवान् अस्ति।
Hindusthan Samachar / Divya Ranjan