Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे सेवातीर्थे देशस्य २० अन्तरिक्ष-स्टार्टअप-संस्थानां मुख्यकार्यपालकैः संस्थापकैश्च सह संवादं कृतवान्। अस्मिन् अवसरे अन्तरिक्षक्षेत्रे भारतस्य निजी-संस्थानां वर्धमानसामर्थ्यानां, वैश्विकस्तरे भारतीयानाम् अन्तरिक्षप्रौद्योगिकीनां वर्धमानमागधायाः तथा अन्तरिक्षक्षेत्रे भविष्यस्य सम्भावनानां विषये चर्चा अभवत्।
प्रधानमन्त्रिकार्यालयस्य अनुसारं सभायां रॉकेट्-निर्माणे, पुनःप्रयोक्तुं शक्येषु अन्तरिक्षयानेषु प्रक्षेपणयानेषु च, उपग्रहेषु, अन्तरिक्षसम्बद्धेषु विद्युतीयतन्त्रेषु, नवीन-प्रौद्योगिक्या रॉकेट्-इञ्जिन्-निर्माणे, अन्तरिक्षरक्षासम्बद्धसूचनासु, अन्तरिक्षे सञ्चितस्य अपशिष्टस्य निष्कासने तथा कृत्रिमबुद्धिमत्तायाः साहाय्येन स्थानीय-ऋतो: जलवायोश्च सूचनां प्रदासु प्रौद्योगिकीषु कार्यं कुर्वतां स्टार्टअप-संस्थानां प्रमुखाः सम्मिलिताः अभवन्।
स्टार्टअप-संस्थानां प्रमुखैः अन्तरिक्षक्षेत्रे निजी-संस्थानां कार्यकरणाय अनुमति-प्रदानस्य सर्वकारस्य निर्णयस्य प्रशंसा कृता। तैः उक्तं यत् अनेन निर्णयेन उद्योगक्षेत्राय अनेकानि नवीनावसराणि सृष्टानि सन्ति। तैः सूचितं यत् भारतस्य निजी-अन्तरिक्ष-संस्थानैः विकसितासु प्रौद्योगिकीषु तासाम् अङ्गीकरणे प्रयोगे च विश्वस्य अनेकदेशानां संस्थाः रुचिं प्रदर्शयन्ति।
प्रधानमन्त्री अन्तरिक्षक्षेत्रसम्बद्धेभ्यः उद्यमिभ्यः स्वप्रौद्योगिकीनां नवीनान् उपयोगान् अन्वेष्टुं तथा च सामान्यजनानां जीवनं सुकरं कर्तुं शक्नुवन्तीं प्रौद्योगिकीम् विकसितुं ध्यानं दातुम् उक्तवान्।
मोदी अन्तरिक्षोद्योगस्य समाजविकास-सम्बद्धानां अन्येषां क्षेत्राणां च मध्ये सहयोगवर्धने अपि बलं दत्तवान्। तेन उक्तं यत् अन्तरिक्षे सञ्चितस्य अपशिष्टस्य निष्कासनप्रौद्योगिक्यां कार्यं कुर्वत्यः संस्थाः पर्यावरणसम्बद्धैः सङ्घटनैः सह मिलित्वा कार्यं कर्तुं शक्नुवन्ति। तथैव कृषिकार्यार्थम् अन्तरिक्षप्रौद्योगिकीं विकसितुं कार्यं कुर्वत्यः संस्थाः कृषिविश्वविद्यालयैः सर्वकारीयविभागैश्च सह मिलित्वा कृषकाणां श्रेष्ठनिर्णयेषु उत्पादनवर्धने च साहाय्यं कर्तुं शक्नुवन्ति।
प्रधानमन्त्री अवदत् यत् भारतः एतादृशं वातावरणं निर्मातु यत् यदा विश्वः अन्तरिक्षक्षेत्रस्य विषये चिन्तयेत् तदा तस्य दृष्टिः भारतस्य उपरि पततु। तेन उक्तं यत् देशस्य अन्तरिक्षक्षेत्रं विश्वस्य प्रतिभानां, संस्थानां निवेशस्य च आकर्षणस्य केन्द्रं भवितुं शक्नोति।
तेन अटल-टिङ्करिङ्ग-प्रयोगशालाभिः सह अन्तरिक्षक्षेत्रस्य संस्थानां सहयोगं वर्धयितुं विचार: प्रदत्तः। प्रधानमन्त्री अवदत् यत् अनेन बालकेषु अल्पायुषि एव अन्तरिक्षस्य प्रति जिज्ञासा रुचिश्च उत्पन्ने कर्तुं साहाय्यं भविष्यति।
अस्मिन् संवादे स्कायरूट् एयरोस्पेस्, अग्निकुल् कॉसमॉस्, पिक्सेल्, ध्रुव स्पेस्, गैलेक्सआई, पियरसाइट्, बेलाट्रिक्स् एयरोस्पेस्, दिगन्तरा, सैटश्योर्, सुहोरा टेक्नोलॉजीज्, मनस्तु स्पेस्, एस्ट्रोबेस्, टेकमी२स्पेस्, व्योमआईसी, कॉसमॉसर्व् स्पेस्, ऑर्बिटएआईडी् एयरोस्पेस्, स्कायसर्व, सेरेन्डिपिटी स्पेस्, वासर् लैब्स् तथा मिस्टईओ इत्येतेषां संस्थानां प्रमुखाः संस्थापकाः च सम्मिलिताः अभवन्।
Hindusthan Samachar / Divya Ranjan