Enter your Email Address to subscribe to our newsletters

नवादा, २१ अगस्तमासः (हि.स.)। तुलसीजयन्त्याः पावनावसरे आगामी २३ अगस्तदिनाङ्के बिहारस्य नवादानगरे कुन्तीनगरे स्थिते मॉडर्न्-इङ्ग्लिश्-विद्यालये भव्यस्य तुलसीजयन्ती-समारोहस्य आयोजनं क्रियते।
समारोहे रामानन्दसागरस्य लोकप्रियस्य ‘रामायणम्’ इति धारावाहिके भगवत: श्रीरामस्य अविस्मरणीयां भूमिकां निर्वहन् प्रसिद्धः अभिनेता मेरठ-लोकसभाक्षेत्रस्य सांसदः अरुणगोविलः नवादाभूमौ भव्यतया स्वागतेन अभिनन्दनेन च सम्मानितः भविष्यति।
अस्मिन् अवसरे नवादा-मॉडर्न्-ग्रुप्-ऑफ्-इन्स्टिट्यूशन्स-संस्थायाः प्रायः पञ्चसहस्रं छात्राः छात्राश्च एकत्र श्रीरामचरितमानसस्य ‘धनुषयज्ञम्’ तथा ‘सीतास्वयंवरम्’ इति प्रसङ्गयोः सामूहिकं सङ्गीतमयं गायनं प्रस्तोष्यन्ति।
सहस्रशः विद्यार्थिनां सामूहिकसहभागितया आयोजितम् एतदद्वितीयं भव्यं च सांस्कृतिकायोजनं गोस्वामिनः तुलसी-दासस्य अमरकृतिं श्रीरामचरित-मानसं प्रति श्रद्धां भारतीयसंस्कृतेः गौरवशालिनी परम्परा च समर्पिता भविष्यति।
नवादा-मॉडर्न्-ग्रुप्-ऑफ्-इन्स्टिट्यूशन्स-संस्थायाः पक्षतः समस्तेभ्यः नवादाजनपद-वासिभ्यः सादरं निवेदनं यत् अस्मिन् ऐतिहासिके भव्ये च तुलसीजयन्ती-समारोहे अधिकाधिकसंख्यया समुपस्थिताः भूत्वा कार्यक्रमस्य गरिमां वर्धयन्तु तथा अरुणगोविलस्य स्वागताभिनन्दनस्य अस्य विशेषावसरस्य साक्षिणः भवन्तु।
Hindusthan Samachar / Divya Ranjan