प्रधानमंत्रिणो मोदिनो नेतृत्वे विज्ञानस्य क्षेत्रे भारतस्य वर्धितो मान-सम्मानः -मुख्यमंत्री डॉ. यादवः
- मेपकास्टद्वारा इसरोसंस्थायाः सहयोगेन 22 अगस्त तमे दिनांके भविष्यति राज्य स्तरीय सेटेलाईटप्रारूपनिर्माणस्य कार्यशाला भोपालम्, 21 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः राष्ट्रियान्तरिक्षदिवसस्य अवसरॆ प्रदेशवासिभ्यः शुभकामना
सीएम मोहन यादव (फाइल फोटो)


- मेपकास्टद्वारा इसरोसंस्थायाः सहयोगेन 22 अगस्त तमे दिनांके भविष्यति राज्य स्तरीय सेटेलाईटप्रारूपनिर्माणस्य कार्यशाला

भोपालम्, 21 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः राष्ट्रियान्तरिक्षदिवसस्य अवसरॆ प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः शुक्रवासरे स्वसन्देशे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे विज्ञानक्षेत्रे क्रियमाणैः कार्यैः विश्वे भारतस्य मानसम्मानं वर्धितम् अस्ति। मध्यप्रदेशोऽपि देशेन सह पदे पदे समं गच्छति।

सः अवदत् यत् मध्यप्रदेशे विज्ञानस्य लोकप्रियतां वर्धयितुं निरन्तरं प्रयत्नाः क्रियमाणाः सन्ति। प्रदेशे अन्तरिक्षनीतिः प्रारब्धा अस्ति। विज्ञाननगरस्य तारामण्डलस्य च प्रारम्भाय पहलः कृता अस्ति। अन्तरिक्षप्रौद्योगिक्याः विज्ञानस्य च अधिकतमः लाभः जनजनं प्रति प्राप्नुयात्, इत्येतद्दृष्ट्या प्रदेशे विविधाः गतिविधयः निरन्तरं क्रियमाणाः सन्ति। मध्यप्रदेशविज्ञानप्रौद्योगिकीपरिषदा विविधाभिः गतिविधिभिः विद्यार्थिनः विज्ञानेन सह संयोजिताः सन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे विद्यार्थिभिः नागरिकैश्च सह विज्ञानस्य सम्बन्धस्थापनस्य कार्ये केन्द्रसर्वकारात् पूर्णं सहयोगं प्राप्यते। अधुना एव भोपालस्थिते आञ्चलिकविज्ञानकेन्द्रे अन्तरिक्षदीर्घायाः शुभारम्भः जातः, या सर्वेषां विद्यार्थिनां कृते ज्ञानवर्धिका अस्ति।

सः अवदत् यत् राष्ट्रियान्तरिक्षदिवसस्य एकदिनपूर्वं अगस्तमासस्य २२ दिनाङ्के मध्यप्रदेशविज्ञानप्रौद्योगिकीपरिषदा इसरो इत्यस्य सहयोगेन राज्यस्तरीयस्य उपग्रहप्रतिरूपनिर्माणकार्यशालायाः आयोजनं कृतम्, यत् प्रशंसनीयं कार्यम् अस्ति। अस्यां कार्यशालायां प्रदेशस्य ३२ तः अधिकेषु विश्वविद्यालयेषु महाविद्यालयेषु वैज्ञानिकसंस्थानेषु च अध्ययनरताः विद्यार्थिनः शिक्षकाः च भागं गृह्णीयुः। युवभ्यः सामान्यनागरिकेभ्यश्च अन्तरिक्षविज्ञानस्य प्रौद्योगिक्याः अनुसन्धानस्य च प्रति जागरूकतां जनयितुं प्रयत्नाः क्रियमाणाः सन्ति।

मुख्यमन्त्री डॉ. यादवः विद्यार्थिभ्यः विज्ञानशिक्षकेभ्यः नागरिकेभ्यश्च राष्ट्रियान्तरिक्षदिवसस्य हार्दिकाः शुभकामनाः प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani