Enter your Email Address to subscribe to our newsletters



श्वेतवस्त्रैः क्षेत्रं संवृतम्, उभयोः समुदाययोः आवागमनमार्गाः पृथक्-पृथक् आसन्
धारम्, २१ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य धाराजनपदस्य मुख्यालये स्थिते ऐतिहासिके भोजशाला-परिसरे शुक्रवासरे उभयोः समुदाययोः धार्मिका-नुष्ठानानि शान्तिपूर्वकं सम्पन्नानि। भोजशालायां हिन्दुसमाजेन पूजार्चनां कृत्वा हनुमच्चालीसापाठः कृतः, यदा तु भोजशाला-परिसरस्य पृष्ठभागे सर्वोच्च-न्यायालयेन निर्धारिते खसरा-सङ्ख्या ६१२ इति भूमिखण्डे मुस्लिमसमाजेन शुक्र-वासरस्य नमाज-प्रार्थना कृता।
नमाज-प्रार्थनां दृष्ट्वा प्रशासनं कठोरान् सुरक्षाप्रबन्धान् अकरोत्। भोजशालायां नमाज्-स्थले च उभयतः बहुसङ्ख्यकाः आरक्षकाः नियोजिताः आसन्। नमाज-स्थलस्य चतुर्दिक्षु अवरोधकाः स्थापिताः। सम्पूर्णं क्षेत्रं श्वेतवस्त्रैः संवृतम्, येन कस्मादपि दिशः कोऽपि अनधिकृतरूपेण प्रवेशं न कर्तुं शक्नुयात्। सर्वोच्च-न्यायालयस्य निर्देशानां पालनं कुर्वता प्रशासनेन उभयोः पक्षयोः कृते पृथक्-पृथक् प्रवेश-निर्गमनमार्गाः निर्धारिताः आसन्।
नूतनव्यवस्थानुसारम् अद्य चतुर्थः शुक्रवारः आसीत्। अस्मिन् समये नमाज-प्रार्थनायाः कृते आगतानां जनानां सङ्ख्या पूर्वशुक्रवारेभ्यः अधिका आसीत्। प्रायः ४०० तः ५०० पर्यन्तं नमाजीजनाः निर्धारित-स्थलं प्राप्तवन्तः। मुख्यद्वारपर्यन्तं नमाजीजनानां जनसमूहः आसीत्। शुक्रवासरस्य नमाज-प्रार्थनायाः समये भोजशालायां मध्याह्ने हनुमच्चालिसापाठः भजन-कीर्तनं च प्रचलति स्म। श्रद्धालवः पूजां दर्शनं च कुर्वन्तः आसन्। घण्टानां घड़ियालानां झाञ्झ-मञ्जीराणां शङ्खस्य च ध्वनिः सर्वत्र श्रूयमाणः आसीत्।
वस्तुतः गतशुक्रवासरे आवागमनसमये उत्पन्नस्य गतिरोधस्य विवादस्य च आरोपान् दृष्ट्वा जनपदप्रशासनेन व्यवस्थासु सुधारः कृतः। जनपदाधिकारी राजीवरञ्जनमीणा तथा आरक्षकाधीक्षकः सचिनशर्मा च प्रातः एव भोजशाला-परिसरस्य, नमाज्-स्थलस्य, सर्वेषां च सम्पर्कमार्गाणां निरीक्षणम् अकरोताम्। अधिकारिभिः स्पष्टं कृतं यत् संघर्षं परिहर्तुं उभयोः पक्षयोः आवागमनस्य समयः मार्गश्च पूर्णतया पृथक् निर्धारितः अस्ति, यः प्रातःकालात् सायंकालपर्यन्तं प्रवर्तमानः आसीत्। संवेदनशीलां स्थितिं दृष्ट्वा भोजशाला-परिसरस्य बहिः त्रिस्तरीया सुदृढा सुरक्षा-व्यवस्था नियोजिता आसीत्। सुरक्षायां कस्यापि प्रकारस्य प्रमादः न भवेत् इत्यर्थं चलदूरनिरीक्षणयानेन १८०-अंशीय-कैमरेभ्यश्च सर्वत्र सूक्ष्मनिरीक्षणं क्रियमाणम् आसीत्।
धारस्य जनपदाधिकारी राजीवरञ्जनमीणा अवदत् यत् सर्वोच्चन्यायालयस्य निर्देशानुसारं कृतानां व्यवस्थाव्यवस्थानां कार्यान्वयनाय आवश्यकाः सुरक्षाव्यवस्थाः कृताः सन्ति। तदर्थं विभिन्नाः कार्यपालिकादण्डाधिकारिणः आरक्षकाधि-कारिणश्च नियोजिताः सन्ति। तेन उक्तं यत् न्यायालयस्य निर्देशानुसारम् उभयोः समुदाययोः कृते पृथक् प्रवेश-निर्गमनव्यवस्था शासनस्य सुनिश्चित-कर्तव्यता अस्ति। अस्माकं प्रयासः अस्ति यत् विधिव्यवस्थां ध्याने निधाय प्रवेश-निर्गमनस्य व्यवस्था क्रियते, येन उभयोः समुदाययोः आवागमनव्यवस्था सुचारुरूपेण भवेत्।
आरक्षकाधीक्षकः सचिनशर्मा अवदत् यत् गतद्विदिनेषु अपि विभिन्नवर्गानां, समुदायानां, सम्प्रदायानां च ये जनाः अस्माकं समीपम् आगतवन्तः, तेभ्यः एतदेव बोधितं यत् सर्वोच्चन्यायालयस्य अभिप्रायानुसारमेव शासनं प्रशासनं आरक्षकविभागश्च कार्यं कुर्वन्ति। तेन उक्तं यत् वयं एतदपि सुनिश्चितं करिष्यामः यत् शुक्रवासरस्य नमाज्-प्रार्थना शान्तिपूर्वकं सम्पन्ना भवेत्। बाह्यस्थानादपि अस्मभ्यं सुरक्षाबलं प्राप्तम् अस्ति। प्रायः १,००० आरक्षकानां बलम् अत्र नियोजितम् अस्ति। तदतिरिक्तं तकनीकी-निरीक्षणस्य, ड्रोनस्य, सीसीटीवी-निरीक्षणस्य च माध्यमेन सुरक्षाव्यवस्था सुनिश्चितां कृता।
आरक्षकप्रशासनेन भोजशालायां, नमाज्-स्थले, तद्समीपवर्तिषु क्षेत्रेषु च सुरक्षा वर्धिता। विधिव्यवस्था अक्षुण्णा भवेत् इत्यर्थम् उभयोः समुदाययोः आवागमन-मार्गाः पृथक्-पृथक् कृताः सन्ति।
सूर्योदयात् सूर्यास्तपर्यन्तं पूजायाः अधिकारः अस्माभिः प्राप्तः : पाण्डे
भोजोत्सवसमित्याः संरक्षकः विश्वासपाण्डे अवदत् यत् वयं प्रत्येकस्मिन् शुक्रवासरे हनुमच्चालीसापाठं कुर्वन्तः आगताः स्मः, भविष्येऽपि करिष्यामः। हिन्दुसमाजाय सूर्योदयात् सूर्यास्तपर्यन्तं पूजायाः यः अधिकारः प्राप्तः, तस्यानुसारमेव वयं पूजापाठं कुर्मः। तेन उक्तं यत् नमाज्-प्रार्थनया सह अस्माकं कश्चन सम्बन्धः नास्ति। अस्माभिः केवलं सूर्योदयात् सूर्यास्तपर्यन्तं प्राप्तस्य पूजाधिकारस्य न्यायालयस्य आदेशानुसारं पालनं क्रियते, भविष्येऽपि करिष्यते। भोजशाला हिन्दूनां मन्दिरम् अस्ति। एषा माता सरस्वत्याः स्थली अस्ति। केवलं प्रत्येकस्मिन् शुक्रवासरे एव न, वयं प्रतिदिनं मातुः पूजां कुर्मः। प्रतिदिनं यः अस्माकं पूजापाठक्रमः प्रचलति, सः निरन्तरं प्रवर्तते।
Hindusthan Samachar / Divya Ranjan