होटल, लॉज गेस्टहाउस इत्येषां पथिकाश्रयाणां निकास द्वाराणि आधृत्य दृढाःभविष्यन्ति नियमाः, बंगाल सर्वकारो निर्मास्यति नूतनम्एसओपी इत्येतत्
कोलकाता, 21 अगस्तमासः (हि.स.)। पश्चिमबङ्गराज्ये तारापीठे मध्यकोलकातानगरे च क्रमशः घटितयोः द्वयोः होटलाग्निदुर्घटनयोः अष्टादशजनानां मृत्योः अनन्तरं राज्यस्य अग्निशमनविभागेन होटल्, विश्रामगृहाणां अतिथिगृहाणां च अग्निसुरक्षोपायान् अधिकं कठोरान् कर्तुं
इसी होटल के पास लगी है आग


कोलकाता, 21 अगस्तमासः (हि.स.)। पश्चिमबङ्गराज्ये तारापीठे मध्यकोलकातानगरे च क्रमशः घटितयोः द्वयोः होटलाग्निदुर्घटनयोः अष्टादशजनानां मृत्योः अनन्तरं राज्यस्य अग्निशमनविभागेन होटल्, विश्रामगृहाणां अतिथिगृहाणां च अग्निसुरक्षोपायान् अधिकं कठोरान् कर्तुं सज्जता प्रारब्धा अस्ति। विभागेन निर्गमद्वाराणां संरक्षणस्य आपत्कालीनस्थितौ जनानां सुरक्षितनिष्कासनस्य च विषये नूतना मानकसञ्चालनप्रक्रिया अर्थात् एसओपी निर्मीयते।

अग्निशमनविभागस्य वरिष्ठाधिकारिणः अनुसारं नूतनायाः एसओपी इत्यस्य प्रारम्भिकं प्रारूपं सिद्धम् अस्ति। निर्देशानां प्रवर्तनानन्तरं सर्वेषां होटल्, विश्रामगृहाणाम् अतिथिगृहाणां च कृते तेषां पालनम् अनिवार्यं भविष्यति। नियमानां पालनं सुनिश्चितं कर्तुं नियमितनिरीक्षणमपि भविष्यति।

नूतनव्यवस्थायां निर्गमद्वारेषु सर्वाधिकं बलं प्रदास्यते। अधिकारिणाम् अनुसारं होटलस्य सर्वाणि निर्गमद्वाराणि सर्वदा उद्घाटितानि तालारहितानि च भवितव्यानि। निर्गमद्वारं प्रति गच्छत्सु मार्गेषु किमपि वस्तु स्थापयित्वा तेषां मार्गाणां अवरोधनं न कर्तुं शक्यते।

विभागस्य अनुसारं निर्गमद्वाराणि धातुजालिकायुक्तसंरचनायुक्तानि भवितव्यानि, येन अग्निप्रज्वलने धूमः बहिः निर्गन्तुं शक्नुयात् तथा च जनाः सुगमतया बहिः निर्गन्तुं शक्नुयुः। काष्ठेन, प्लाइवुडेन अथवा पटलादिभिः ज्वलनशीलपदार्थैः निर्गमद्वारनिर्माणस्य अनुमतिः न भविष्यति।

नूतनायां एसओपी इत्यस्यां आपत्कालीननिर्गमद्वाराणां कृते स्पष्टसूचकचिह्नानां स्थापनस्य प्रशिक्षितकर्मचारिणां नियुक्तेश्च प्रावधानं भविष्यति। होटलप्रबन्धनेन आपत्कालीनस्थितौ अतिथीन् सुरक्षितस्थलेषु नेतुं प्रशिक्षितकर्मचारिणां व्यवस्था करणीया भविष्यति। तदतिरिक्तं होटलप्रवेशकाले एव अतिथिभ्यः अग्न्याद्यापत्कालीनस्थितौ किं करणीयं किं च न करणीयम् इति सूचना प्रदानम् अनिवार्यं भविष्यति।

छदपर्यन्तं गन्तुं मार्गाणां विषये अपि कठोराः नियमाः निर्मीयन्ते। होटलस्य छदःद्वाराणि सर्वदा उद्घाटितानि स्थापनीयानि तथा च तेषां धातुजालिकायुक्तसंरचनायुक्तानि भवितुम् आवश्यकं भविष्यति। छदं प्रति गच्छतां सोपानानां मार्गाणां च उपरि कस्यापि प्रकारस्य अतिक्रमणं वस्तूनां वा स्थापनं अनुमतं न भविष्यति।

अधिकारिणः अनुसारं अग्निदुर्घटनायाः स्थितौ यदि अधः बहिर्गमनस्य मार्गः बाधितः भवेत् तर्हि होटल्-निवासिनां कृते छदः सुरक्षितं स्थानं भवितुं शक्नोति। अतः छदं प्रति गन्तुं मार्गस्य उद्घाटितः सुरक्षितश्च भवितुं अत्यन्तम् आवश्यकम् अस्ति।

अग्निशमनविभागस्य अनुसारं तारापीठस्य कोलकातानगरस्य च उभयोः होटलाग्निदुर्घटनयोः प्रारम्भिकसमीक्षायां पर्याप्तनिर्गमविकल्पानाम् अभावः अधिकसंख्यकानां मृत्योः प्रमुखकारणेषु एकः इति ज्ञातम् अस्ति। एतमेव दृष्ट्वा नूतनायां एसओपी इत्यस्यां आपत्कालीननिष्कासनव्यवस्थायै विशेषप्राथमिकता प्रदीयते।

तारापीठस्य होटल् इत्यत्र अग्निदुर्घटनया नव जनानां मृत्युः अभवत्, यदा मध्यकोलकातायाः मिर्जागालिबमार्गस्थिते होटल् इत्यत्र अपि नव जनानां प्राणाः गताः। क्रमशः घटिताभिः एताभिः घटनाभिः अनन्तरं अग्निशमनविभागेन राज्यस्य सर्वेषु आतिथ्यप्रतिष्ठानेषु सुरक्षाव्यवस्थायाः समीक्षा तीव्रतया प्रारब्धा अस्ति।

Hindusthan Samachar / Dheeraj Maithani