Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः अद्य प्रातः सर्वदा इव ‘सुभाषितम्’ परोपकारभावनया परिपूर्णं श्लोकं स्वकीय-‘एक्स’ माध्यमे प्रकाशितवान्। तेन लिखितम्— “नदीनाम् अविरतं प्रवाहः अस्मान् शिक्षयति यत् वयं कथं स्वसामर्थ्यस्य उपयोगं मानवतायाः कल्याणाय कर्तुं शक्नुमः। निःस्वार्थसेवा, समर्पणं परोपकारश्च—एषैव भावना राष्ट्राय नूतनां दिशां प्रददाति।”
इदं सुभाषितम् अस्ति—
“जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”
अस्मिन् सुभाषिते प्रकृतेः माध्यमेन मनुष्येभ्यः परोपकारस्य शिक्षा प्रदत्ता अस्ति। कविः कथयति— “संसारस्य सर्वाः नद्यः पर्वतेभ्यः उद्गत्य अविश्रान्तं निरन्तरं समुद्रस्य दिशि प्रवहन्ति। नद्यः स्वयम् स्वीयं जलं न पिबन्ति, अपितु मार्गे आगतानां सर्वेषां जीवानां तृष्णां शमयन्ति तथा च क्षेत्राणि सिञ्चन्ति।”
कवेः कल्पना अस्ति यत् नद्यः स्वस्य अस्य निःस्वार्थप्रवाहस्य माध्यमेन मानवजातये मौनं सन्देशं प्रयच्छन्ति। ताः मनुष्येभ्यः कथयन्ति— “यथा वयं स्वसर्वस्वं परेभ्यः समर्पयन्त्यः अन्ते समुद्रे विलीयामहे, तथैव यूयम् अपि मनुष्याः स्वजीवनस्य उपयोगं केवलं स्वार्थाय न कुर्वन्तु, अपितु परेषां कल्याणाय सेवायै च कुर्वन्तु।”
Hindusthan Samachar / Divya Ranjan