Enter your Email Address to subscribe to our newsletters

पिथौरागढम्, २१ अगस्तमासः (हि.स.)। पिथौरागढस्य बिण-विकासखण्डस्य अन्तर्गतं घुनसेराग्रामनिवासिनी रेखाभट्टा अद्य महिला-सशक्तीकरणस्य आत्म-निर्भरतायाश्च प्रेरणादायिनी उदाहरणरूपेण प्रतिष्ठिता अस्ति। राष्ट्रियग्रामीण-जीविकोपार्जनमिशनेन सह संयुज्य सा न केवलं स्वस्य आजीविकां सुदृढां कृतवती, अपि तु क्षेत्रस्य अन्याभ्यः महिलाभ्यः अपि आर्थिकरूपेण आत्मनिर्भराः भवितुं मार्गं प्रदर्शितवती।
रेखाभट्टा सम्प्रति राष्ट्रियग्रामीण-जीविकोपार्जनमिशनेन सह सम्बद्धा अस्ति तथा हरुसैमदेवता-स्वसहायतासमूहस्य अध्यक्षापि अस्ति। समूहस्य माध्यमेन तस्यै सीआईएफ-अन्तर्गतं ७५,००० रूप्यकाणां, सीसीएल-अन्तर्गतं २ लक्षरूप्यकाणां तथा आरएफ-रूपेण २५,००० रूप्यकाणां वित्तीयसहायता प्राप्ता। अस्याः सहायतायाः माध्यमेन सा स्वस्य आजीविकाक्रियाकलापान् अग्रे वर्धितवती तथा समूहस्य सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहति। तस्याः परिश्रमः, लग्नता महिलानाम् आत्मनिर्भरत्वाय च कृताः प्रयासाः वर्षे २०२५ तमे तीलूरौतेली-पुरस्कारेणापि सम्मानिताः।
अयं सम्मानः तया महिला-सशक्तीकरणस्य आजीविकायाश्च क्षेत्रे क्रियमाणानां उल्लेखनीयकार्याणां मान्यता अस्ति। सम्प्रति रेखाभट्टा एनआरएलएम-संस्थायाः ‘सरस’ इति केन्द्रस्य सञ्चालनं करोति। अस्मिन् केन्द्रे जनपदस्य प्रायः पञ्चसहस्रं स्वसहायता-समूहाः सम्बद्धाः सन्ति। विभिन्नैः समूहैः निर्मीयमाणानां पर्वतीयोत्पादानां विपण्यवितरणं अस्य केन्द्रस्य माध्यमेन क्रियते।
केन्द्रे हरितचायः, औषधीयचायः, बेरीनागचायः, मण्डुवस्य बिस्किटानि, मण्डुवस्य पिष्टम्, मक्कायाः पिष्टम्, पर्वतीय-राजमाषाः, विभिन्नप्रकारकाः पर्वतीयदालाः, पर्वतीयमधु, पर्वतीयघृतं च इत्यादयः अनेकाः स्थानीयोत्पादाः विक्रयार्थम् उपलब्धाः सन्ति। अनेन स्व-सहायतासमूहेभ्यः सम्बद्धाभ्यः महिलाभ्यः स्वोत्पादानां विपण्यः प्राप्यते तथा तासाम् आजीविका सुदृढा भवति।
रेखाभट्टायाः सफलता अस्याः तथ्यस्य उदाहरणम् अस्ति यत् स्वसहायतासमूहानां, सर्वकारीययोजनानां, वित्तीयसहायतायाः विपणिसुविधायाश्च माध्यमेन ग्रामीण-महिलाः स्वावलम्बिन्यः भूत्वा न केवलं परिवारस्य आर्थिकस्थितिं सुदृढां कर्तुं शक्नुवन्ति, अपि तु अन्याभ्यः महिलाभ्यः अपि प्रेरणां प्रदातुं शक्नुवन्ति।
मुख्यमन्त्रिणः पुष्करसिंहधामिनः कुशल-नेतृत्वे प्रदेशे स्वसहायतासमूहानां माध्यमेन महिलाः आर्थिकरूपेण सशक्ताः आत्मनिर्भराश्च कर्तुं दिशि निरन्तरं कार्यं क्रियते। रेखाभट्टायाः सफलता अस्यैव प्रयासस्य प्रेरणादायिनी उदाहरणम् अस्ति।
Hindusthan Samachar / Divya Ranjan