संस्कृत सप्ताहे दिल्ल्यां निर्गमिष्यति संस्कृत-शोभायात्रा, 23 अगस्त तमे दिनांके भविष्यति आयोजनम्
नव दिल्ली, 21 अगस्तमासः (हि.स.)। संस्कृतं जनजनस्य भाषां कर्तुं तथा संस्कृतेः प्रति जनजागरूकतां वर्धयितुम् उद्दिश्य संस्कृतभारती, दिल्लीप्रान्तस्य पक्षतः संस्कृतसप्ताहस्य उपलक्ष्ये अगस्तमासस्य २३ दिनाङ्के रविवासरे संस्कृतशोभायात्रायाः आयोजनं करिष्
संस्कृत-शोभायात्रा, 23 अगस्त को।


नव दिल्ली, 21 अगस्तमासः (हि.स.)।

संस्कृतं जनजनस्य भाषां कर्तुं तथा संस्कृतेः प्रति जनजागरूकतां वर्धयितुम् उद्दिश्य संस्कृतभारती, दिल्लीप्रान्तस्य पक्षतः संस्कृतसप्ताहस्य उपलक्ष्ये अगस्तमासस्य २३ दिनाङ्के रविवासरे संस्कृतशोभायात्रायाः आयोजनं करिष्यते। शोभायात्रा अपराह्णे त्रिवादने संस्कृतभारत्याः केन्द्रीयकार्यालयात् ‘प्रणव’ इत्यस्मात् प्रारभ्य राजीवचौकमेट्रोस्थानकस्य षष्ठद्वारपर्यन्तं गमिष्यति। ततः सामूहिकसंस्कृतोद्घोषेण राजीवचौकस्य सम्पूर्णवृत्तस्य परिभ्रमणं करिष्यते। परिभ्रमणानन्तरं षष्ठद्वारतः शोभायात्रा पुनः वाहनैः संस्कृतभारत्याः केन्द्रीयकार्यालयं ‘प्रणव’ प्रति प्रत्यागमिष्यति।

अस्याः शोभायात्रायाः माध्यमेन “मातृभूमिः भारतम्, मातृभाषा संस्कृतम्” इति भावं जनजनं प्रति प्रसारयितुं प्रयत्नः करिष्यते। संस्कृतभारती संस्कृतप्रेमिभ्यः, विद्यार्थिभ्यः, शिक्षकभ्यः, युवभ्यः, अभिभावकेभ्यः तथा विभिन्नक्षेत्रैः सम्बद्धेभ्यः नागरिकेभ्यः शोभायात्रायां सहभागितायाः अपेक्षां कृतवती अस्ति।

अस्य आयोजनस्य उद्देश्यम् संस्कृतं केवलं शास्त्रीयग्रन्थानां शैक्षणिकाध्ययनस्य च परिसीमितभाषारूपेण न दृष्ट्वा जनसंवादस्य दैनिकव्यवहारस्य च जीवन्तभाषारूपेण समाजस्य पुरतः प्रस्तुतिकरणम् अस्ति। आयोजकानाम् अनुसारं संस्कृतशोभायात्रा केवलं सामान्ययात्रा न भविष्यति, अपितु भाषायाः संस्कृतेश्च विषये जनजागरणस्य प्रभावी माध्यमं भविष्यति।

सार्वजनिकस्थानानि अतिक्रम्य गच्छन्त्या अस्याः शोभायात्रया एषः सन्देशः जनसामान्यं प्रति प्रेषयितुं प्रयत्नः करिष्यते यत् संस्कृतं केवलं प्राचीनग्रन्थानां भाषा नास्ति, अपितु वर्तमानकालेऽपि अध्ययनस्य संवादस्य सांस्कृतिकाभिव्यक्तेश्च समर्था भाषा अस्ति। यात्राकाले संस्कृते सामूहिकोद्घोषेण संस्कृतभाषायाः, साहित्यस्य, भारतीयसंस्कृतेः, ज्ञानपरम्परायाश्च संरक्षणस्य संवर्धनस्य च सन्देशः जनसामान्यं प्रति प्रेषयिष्यते।

संस्कृतभारती, दिल्लीप्रान्तः संस्कृतप्रेमिभ्यः, विद्यार्थिभ्यः, शिक्षकभ्यः, अभिभावकेभ्यः, युवभ्यः तथा दिल्लीवासिभ्यः अधिकाधिकसंख्यया शोभायात्रायां सहभागी भवितुं आह्वानं कृतवती अस्ति।

उल्लेखनीयं यत् संस्कृतस्य प्रचारप्रसाराय कार्यरता संस्कृतभारती १९८१ तमवर्षात् देशविदेशेषु विविधाः गतिविधीः सञ्चालयति। संस्था संस्कृतसम्भाषणशिबिराणि, पत्राचारपाठ्यक्रमान्, गीताशिक्षणकेन्द्राणि, बालकेन्द्राणि, संवादशालाः च इत्यादीनां कार्यक्रमाणां माध्यमेन समाजस्य विभिन्नवर्गान् सरलया पद्धत्या संस्कृतस्य अध्ययनाय भाषणाय च प्रोत्साहयति।

राजधान्यां दिल्लीस्थलेऽपि संस्कृतभारत्याः पक्षतः संस्कृतस्य प्रचारप्रसाराय निरन्तरं व्यापकाः अभियानाः सञ्चालिताः भवन्ति। २०२५ तमे वर्षे दिल्ल्यां १००८ संस्कृतसम्भाषणशिबिराणाम् आयोजनं कृतम् आसीत्। विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु तथा विभिन्नेषु सामाजिकसामुदायिकसंस्थानेषु आयोजितानां शिबिराणाम् उद्देश्यम् जनान् सरलया सहजया च पद्धत्या संस्कृतभाषणस्य प्रशिक्षणं दातुम् आसीत्।

संस्कृतभारत्याः मतानुसारं संस्कृतं भारतस्य समृद्धायाः साहित्यिकज्ञानपरम्परायाः महत्त्वपूर्णं वाहकम् अस्ति। भारतीयदर्शनस्य, साहित्यस्य, योगस्य, आयुर्वेदस्य, व्याकरणस्य, गणितस्य, नाट्यस्य तथा अन्यासां बह्वीनां ज्ञानविद्यानां विशालपरम्परा संस्कृतेन सम्बद्धा अस्ति।

अस्य आयोजनस्य माध्यमेन विशेषतः युवसु विद्यार्थिषु च संस्कृतस्य प्रति रुचिवर्धनं तथा तान् भारतीयज्ञानपरम्परायाः समृद्धया विरासतया सह संयोजयितुं प्रयत्नः करिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani