पशुपालनयोजनाभिः स्वजीविकायाः मार्गःसरलः
रुद्रप्रयागः, 21 अगस्तमासः (हि.स.)।पशुपालनविभागस्य विविधयोजनानां माध्यमेन रुद्रप्रयागजनपदे महिलाभ्यः पशुपालकेभ्यः आर्थिकरूपेण दुर्बलेभ्यश्च वर्गेभ्यः स्वरोजगारस्य अवसराः प्रदीयन्ते। विभागानुसारं गतवित्तीयवर्षे महिलाबक्रीपालनयोजनायाः अन्तर्गतं २० मह
महिला बकरी पालन योजना के तहत बकरी।


रुद्रप्रयागः, 21 अगस्तमासः (हि.स.)।पशुपालनविभागस्य विविधयोजनानां माध्यमेन रुद्रप्रयागजनपदे महिलाभ्यः पशुपालकेभ्यः आर्थिकरूपेण दुर्बलेभ्यश्च वर्गेभ्यः स्वरोजगारस्य अवसराः प्रदीयन्ते। विभागानुसारं गतवित्तीयवर्षे महिलाबक्रीपालनयोजनायाः अन्तर्गतं २० महिलाः, राज्यसेक्टरबक्रीपालनयोजनायाः अन्तर्गतं ८४ महिलाः तथा एसईपीयोजनायाः अन्तर्गतं ३१ महिलाः लाभान्विताः अभवन्।

मुख्यपशुचिकित्साधिकारी आशीषरावतः अवदत् यत् महिलाबक्रीपालनयोजनायां निर्धनाभ्यः, निराश्रिताभ्यः, विधवाभ्यः तथा तलाकशुद्दाभ्यः महिलाभ्यः ३५ सहस्ररूप्यकाणां व्ययेन एककं प्रदीयते। अस्मिन् त्रयः अजाः एकश्च छागः सम्मिलितः भवति। राज्यसेक्टरयोजनायां दश अजाः एकश्च छागः प्रदीयते, सहकारीसंस्थानां माध्यमेन ३० सहस्ररूप्यकाणां ऋणमपि उपलब्धं क्रियते।

सः अवदत् यत् अनुसूचितजातीयानां महिलानां कृते गोपालनयोजनायाः अन्तर्गतं गतवर्षे २१ लाभार्थिनः चयनिताः। मेषपालनयोजनायां २५ लाभार्थिभ्यः दश मेषाः एकश्च मेषः उपलब्धीकृतः। सामान्यवर्गस्य कृते गोपालनयोजनायां एकस्याः धेनोः एककस्थापनाय ४० सहस्ररूप्यकाणां सहायता प्रदीयते।

विभागस्य कुक्कुटपालनयोजनायाः अन्तर्गतं गतवर्षे २५ लाभार्थिभ्यः ६० सहस्ररूप्यकाणाम् अनुदानं प्रदत्तम्। तदतिरिक्तं ग्राम्यगोसेवकयोजनायाः अन्तर्गतं ग्रामीणेभ्यः पञ्च आवारानन्दीनां पालनपोषणाय प्रतिमासं १२ सहस्ररूप्यकाणि प्रदीयन्ते।

जिलाधिकारी विशालमिश्रस्य मार्गदर्शने सञ्चालिताभिः एताभिः योजनाभिः ग्रामीणक्षेत्रेषु आजीविकायाः अवसराः वर्धमानाः सन्ति तथा महिलानां पशुपालकानां च आत्मनिर्भरत्वे सहायता प्राप्यते।

-------------

Hindusthan Samachar / Dheeraj Maithani