निर्णय सिंधोः गरुण पुराणस्य च अनुसारं पुत्रदा एकादशीव्रतं सोमवासरे श्रेष्ठम्
लखनऊ, 21 अगस्तमासः (हि.स.)। एकादशीव्रतं कुर्वतां जनानां कृते अस्मिन् समये भ्रमस्य स्थितिः उत्पन्ना अस्ति। तिथेः आरम्भात् पूर्णतापर्यन्तस्य कालं दृष्ट्वा रविवासरे अर्थात् अगस्तमासस्य २३ दिनाङ्के एकादशी इति कथ्यते। तथापि शास्त्रेषु एकादशीव्रतस्य यः प
प्रतीक चिन्ह


लखनऊ, 21 अगस्तमासः (हि.स.)। एकादशीव्रतं कुर्वतां जनानां कृते अस्मिन् समये भ्रमस्य स्थितिः उत्पन्ना अस्ति। तिथेः आरम्भात् पूर्णतापर्यन्तस्य कालं दृष्ट्वा रविवासरे अर्थात् अगस्तमासस्य २३ दिनाङ्के एकादशी इति कथ्यते। तथापि शास्त्रेषु एकादशीव्रतस्य यः परामर्शः प्रदत्तः अस्ति, तदनुसारम् अस्मिन् समये सोमवासरे पुत्रदाएकादशीव्रतं करणं श्रेष्ठं मन्यते।

वाराणस्याः महावीरपञ्चाङ्गानुसारं अगस्तमासस्य २२ दिनाङ्के शनिवासरे रात्रौ १ वादनात् ४५ निमेषेभ्यः एकादशीतिथिः प्रारभ्यते, या रविवासरे रात्रौ ३ वादनात् ४६ निमेषपर्यन्तं स्थास्यति। अर्थात् सोमवासरस्य प्रभातपर्यन्तम् एकादशीतिथिः भवति।

ज्योतिषशास्त्रस्य विशेषज्ञः आचार्यः प्रदीपतिवारी उक्तवान् यत् अस्मिन् समये एकादशीतिथिः ५२ दण्डेभ्यः अधिका अस्ति। निर्णयसिन्धोः अनुसारं ५२ दण्डेभ्यः अधिका एकादशीतिथिः भवति चेत् गृहस्थाः तस्याः व्रतं कर्तुं न शक्नुवन्ति। आचार्यस्य अनुसारम् एतादृश्याः एकादश्याः व्रतं गृहस्थैः न करणीयम्। तेषां कृते सोमवासरे व्रतं करणं श्रेयस्करं भविष्यति।

तेन गरुडपुराणस्य उल्लेखं कुर्वता उक्तं यत् अस्मिन् पुराणे स्पष्टतया कथितम् अस्ति यत् दशमीतिथितः वृद्धायाः एकादश्याः व्रतमपि त्याज्यम् अस्ति। अस्मिन् समये भवितव्या एकादशी ५५ दण्डपरिमिता अस्ति। दशमीतिथिः ५० दण्डपरिमिता अस्ति। एकादश्याः अधिककालपर्यन्तं स्थितत्वात् सा दशमीतः वृद्धा इति मन्यते। अस्य मतस्य अनुसारमपि एकादशीव्रतं कर्तुं न शक्यते।

गरुडपुराणे उल्लेखः अस्ति यत् एतादृश्याः एकादश्याः व्रतं गान्धार्या कृतम् आसीत्। तस्याः परिणामस्वरूपं सा स्वीयान् शतं पुत्रान् अहासीत्। अतः गृहस्थाः एतादृशस्याः एकादश्याः व्रतं कर्तुं निषिद्धाः सन्ति।

अस्याः तिथेः माहात्म्यस्य चर्चां कुर्वन् आचार्यः उक्तवान् यत् यथा अस्याः एकादश्याः नाम पुत्रदा एकादशी इति अस्ति, तथैव अस्याः फलमपि पुत्रप्राप्तिसम्बद्धम् अस्ति। ये जनाः सन्ततेः इच्छां कुर्वन्ति, ते अस्याः व्रतं कर्तुं शक्नुवन्ति। एषा एकादशी वर्षे केवलम् एकवारम् एव आगच्छति। तेन स्पष्टं कृतं यत् अत्र पुत्रशब्देन सन्ततिः अभिप्रेता अस्ति, न तु केवलं पुत्रः अथवा पुत्री। सन्ततेः इच्छां कुर्वन्तः जनाः अस्य व्रतस्य पालनं करिष्यन्ति। अस्य व्रतस्य पारणाय मंगलवारस्य प्रभाते ५ वादनात् ४२ निमेषानन्तरस्य कालः उचितः भविष्यति।-------------

Hindusthan Samachar / Dheeraj Maithani