Enter your Email Address to subscribe to our newsletters

—प्रथमाय संस्करणाय आवेदनं शुभारब्धं, 20 सितंबरं यावत् शक्यते ऑनलाइनमाध्यमेन नामांकनम्
वाराणसी, 21 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य शासकीयशिक्षाक्षेत्रे उल्लेखनीययोगदानं प्रददतां शिक्षकाणां, विद्यालयानां, ग्रामपञ्चायतीनां तथा खण्डसंसाधनकेन्द्राणां बीआरसी इत्येषां च अधुना ‘सीखो सिखाओ अवार्ड्स २०२६’ इति पुरस्कारैः सम्माननं करिष्यते। डालमियाभारतफाउण्डेशनेन समर्थितेन शैक्षिकसङ्गठनेन सीखो सिखाओ फाउण्डेशनेन शुक्रवासरे पुरस्कारस्य प्रथमसंस्करणस्य घोषणा कृता तथा तदर्थम् आवेदनप्रक्रियापि प्रारब्धा।
फाउण्डेशनस्य संस्थापिका अनुपमा डालमिया अवदत् यत् ‘सीखो सिखाओ अवार्ड्स’ प्रदेशस्य सार्वजनिकशिक्षाव्यवस्थायां सकारात्मकपरिवर्तनं जनयतां व्यक्तीनां संस्थानां च राज्यस्तरे सम्माननाय स्वप्रकारस्य विशिष्टः उपक्रमः अस्ति। अस्य अन्तर्गतं प्रदेशस्य सर्वेषु ७५ जनपदेषु ते शिक्षकाः विद्यालयाः ग्रामपञ्चायताः बीआरसी केन्द्राणि च चिह्निताः करिष्यन्ते, येषां शिक्षणप्रशिक्षणे, विद्यालयप्रबन्धने, सामुदायिकसहभागितायां तथा विद्यार्थिनां शैक्षिकपरिणामेषु उल्लेखनीयं योगदानम् अस्ति।
प्रथमसंस्करणे उत्कृष्टतायाः सम्माननं पञ्चसु श्रेणीषु करिष्यते। तासु शिक्षकपुरस्कारः, विद्यालयपुरस्कारः, ग्रामपञ्चायतपुरस्कारः, बीआरसीपुरस्कारः तथा बालिकाशिक्षापुरस्कारः सम्मिलिताः सन्ति। अनुपमा डालमिया अवदत् यत् सीखो सिखाओ इत्यस्य प्रारम्भः एतादृशेन विश्वासेन अभवत् यत् शिक्षाक्षेत्रे स्थायिपरिवर्तनम् एकस्य संस्थानस्य प्रयासेन सम्भवं नास्ति। तदर्थं शिक्षकाः, अभिभावकाः, समुदायः तथा शासकीयसंस्थाः परस्परं मिलित्वा कार्यं कुर्वन्तु, बालानां शिक्षायाः दायित्वं च सामूहिकरूपेण निर्वहन्तु इति आवश्यकम्।
तया सूचितं यत् ‘सीखो सिखाओ अवार्ड्स २०२६’ इत्यर्थम् आवेदनानि २०२६ तमस्य वर्षस्य सितम्बरमासस्य २० दिनाङ्कपर्यन्तं कर्तुं शक्यन्ते। प्राप्तनामाङ्कनानां मूल्याङ्कनं प्रदेशस्य चतुर्षु भौगोलिकक्षेत्रेषु पश्चिमोत्तरप्रदेशः, मध्योत्तरप्रदेशः, बुन्देलखण्डः तथा पूर्वाञ्चलः इत्येतेषु आधारितं भविष्यति। प्रत्येकस्मात् क्षेत्रात् पञ्चसु श्रेणीषु एकैकः विजेता एकैकश्च उपविजेता चयनितः भविष्यति।
राज्यस्तरीयस्य ‘बालिकाशिक्षापुरस्कारस्य’ समावेशेन प्रथमसंस्करणे सम्पूर्णप्रदेशात् १७ विजेतारः १६ उपविजेतारश्च सम्मानिताः भविष्यन्ति। पुरस्कारविजेतॄणां घोषणा २०२६ तमस्य वर्षस्य नवम्बरमासस्य २६ दिनाङ्के संविधानदिवसस्य अवसरॆ राजधानीलखनऊनगरे आयोजिते समारोहॆ करिष्यते। प्रदेशस्य सर्वेभ्यः ७५ जनपदेभ्यः इच्छुकाः व्यक्तयः संस्थानानि च फाउण्डेशनस्य जालस्थलस्य माध्यमेन ऑनलाइनरूपेण नामाङ्कनं कर्तुं शक्नुवन्ति।
Hindusthan Samachar / Dheeraj Maithani