Enter your Email Address to subscribe to our newsletters

लखनऊ, 22 अगस्तमासः (हि.स.)।आमआदमीपक्षस्य उत्तरप्रदेशप्रभारी राज्यसभासदस्यश्च सञ्जयसिंहः शनिवासरे ‘विद्यालयं सुधारयतु’ इति अभियानस्य प्रारम्भं कृतवान्। अस्य कृते विशेषसहाय्यवाणीसङ्ख्या ८३८२९२८००९ इति प्रसारिता अस्ति। सः जनान् आहूतवान् यत् ते स्वक्षेत्रेषु जीर्णविद्यालयानां, जलप्लावनस्य, भग्नमार्गाणां, मध्याह्नभोजनस्य च दूषितभोजनसम्बद्धानां दृश्यकलिकाः निर्माय अस्यां सङ्ख्यायां प्रेषयेयुः।
सञ्जयसिंहः राजधानीलखनऊस्थे पक्षकार्यालये आयोजितायां पत्रकारवार्तायां उक्तवान् यत् अधुना राजनीतिः जातिधर्मयोः जालात् निर्गत्य शिक्षायाः रोजगारस्य च विषययोः प्रति आगच्छति। एतत् देशस्य उज्ज्वलभविष्यस्य सूचकम् अस्ति। सः उत्तरप्रदेशस्य कथितानां पञ्चपञ्चाशत् शासकीयविद्यालयानां दृश्यकलिकाः प्रदर्शयन् उक्तवान् यत् एताः दृश्यकलिकाः ‘ऑपरेशन कायाकल्प’ इत्यस्य माध्यमेन विद्यालयानां स्वरूपपरिवर्तनस्य दावं मिथ्यां कुर्वन्ति।
सञ्जयसिंहः दावं कृतवान् यत् वाराणसी, गोरखपुर, नोएडा, गाजियाबाद, अलीगढ, महोबा इत्यादिषु जनपदेषु विद्यालयानां छदाः स्रवन्ति। शौचालयाः भग्नाः सन्ति तथा बालकेभ्यः उपवेशनाय पटलिकाः आसन्दिकाश्च अपि न सन्ति।
सांसद् सञ्जयसिंहः उक्तवान् यत् बाबासाहेब-अम्बेडकरः शिक्षां सिंह्याः दुग्धमिव उक्तवान् आसीत्, किन्तु भारतीयजनतापक्षः इच्छति यत् निर्धनानां बालकाः अशिक्षिताः एव तिष्ठेयुः, येन ते स्वाधिकाराणां कृते गर्जितुं न शक्नुयुः।
सांसदः आरोपितवान् यत् मुख्यमन्त्रिणः योगिनः ज्ञातम् अस्ति यत् धर्मस्य नाम्ना द्वेषं प्रसार्य मतानि प्राप्तुं शक्यन्ते। अतः सः विद्यालयेषु मार्गेषु च ध्यानं दातुं त्यक्त्वा समाजविभाजनस्य राजनीतिं करोति। सांसदः उक्तवान् यत् पक्षः सम्पूर्णे उत्तरप्रदेशे जीर्णविद्यालयानां ‘प्रदर्शनीं’ आयोजयिष्यति, येन जनाः भारतीयजनतापक्षस्य दावानां वास्तविकतायाश्च अन्तरं द्रष्टुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani