राष्ट्रभक्तेः आवरणं धृत्वा तुष्टीकरणस्य राजनीतिं करोति काङ्ग्रेसः — भाजपायाः आरोपः
नवदिल्ली, २२ अगस्तमासः (हि.स.)। वन्देमातरम् इति गीतं प्रति भारतीयजनतापक्षेण काङ्ग्रेसं प्रति तीव्रः आक्षेपः कृतः। भाजपया आरोपितं यत् काङ्ग्रेसः राष्ट्रभक्तेः आवरणं धृत्वा तुष्टीकरणस्य राजनीतिं करोति। भाजपया १९ अगस्तदिनाङ्के काङ्ग्रेसकार्यसमित्याः स
भाजपा सांसद संबित पात्रा


नवदिल्ली, २२ अगस्तमासः (हि.स.)। वन्देमातरम् इति गीतं प्रति भारतीयजनतापक्षेण काङ्ग्रेसं प्रति तीव्रः आक्षेपः कृतः। भाजपया आरोपितं यत् काङ्ग्रेसः राष्ट्रभक्तेः आवरणं धृत्वा तुष्टीकरणस्य राजनीतिं करोति। भाजपया १९ अगस्तदिनाङ्के काङ्ग्रेसकार्यसमित्याः सभायां पारितस्य प्रस्तावस्य विषये अपि प्रश्नाः उत्थापिताः।

भाजपामुख्यालये शनिवासरे आयोजिते वार्ताहरसम्मेलने सांसदः डॉ. सम्बित्पात्रः अवदत् यत् काङ्ग्रेसेन पारितः अर्वाचीनः प्रस्तावः १९३७ तमे वर्षे कलकत्तानगरे काङ्ग्रेसकार्यसमित्या गृहीतस्य तस्य निर्णयस्य स्मरणं कारयति, यस्मिन् वन्देमातरमिति गीतस्य षट्सु पदेषु केवलं द्वयोः पदयोः गायनस्य विषयः उक्तः आसीत्। सः काङ्ग्रेसं प्रति प्रश्नं कृतवान् यत् वन्देमातरम्-गीतस्य पूर्णस्वरूपं प्रति तस्याः भूमिका का अस्ति।

१५ अगस्तदिनाङ्के काङ्ग्रेसकार्यालये वन्देमातरम्-गीतस्य गायनसम्बद्धां घटनाम् अपि उल्लिख्य सम्बित्पात्रः अवदत् यत् सामाजिकमाध्यमेषु प्रसारिते एकस्मिन् चलच्चित्रदृश्ये द्वयोः पदयोः अनन्तरं सोनियागान्धी ‘स्टॉप-स्टॉप’ इति कथयन्ती श्रूयते। सः अवदत् यत् वन्देमातरम् केवलं गीतं न, अपितु स्वातन्त्र्यसङ्ग्रामस्य, राष्ट्रभावनायाः तथा भारतस्य गौरवस्य च सम्बद्धः प्रतीकः अस्ति। वन्देमातरम्-गीतस्य १५० वर्षाणि पूर्णानि भवन्ति इत्यस्य अवसरस्य कारणेन सम्पूर्णदेशे अस्य प्रति सम्मानं भावनात्मकः सम्बन्धश्च दृश्यते।

सः अवदत् यत् भाजपायाः राष्ट्रीयाध्यक्षस्य नितिननवीनस्य नूतनदलस्य घोषणायाः अनन्तरं आयोजिता प्रथमपदा-धिकारिसभायां वन्देमातरम्-गीतस्य सम्माने प्रस्तावः पारितः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा राजगसर्वकारस्य नेतृत्वे लालदुर्गस्य परिसरे वन्देमातरम्-गीतस्य षण्णां पदानां गायनं राष्ट्रभावनां प्रति सम्मानस्य सन्देशं ददाति। देशः काङ्ग्रेसस्य तुष्टीकरणस्य राजनीतिं सम्प्रति अवगतोऽस्ति तथा जनता तस्याः उत्तरं दास्यति।

Hindusthan Samachar / Divya Ranjan