वन्दे मातरम् इत्यस्य सम्मानस्य, ऐतिहासिकपरम्परायाः संरक्षणस्य च विषये भाजपापक्षेण प्रस्तावः पारितः
नवदिल्ली, २२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षेण शनिवासरे राष्ट्र-गीतस्य वन्दे मातरम् इत्यस्य सम्मानस्य, गरिमायाः, ऐतिहासिक-परम्परायाश्च संरक्षणार्थं महत्त्वपूर्णः प्रस्तावः पारितः। पक्षेण संकल्पः कृतः यत् सः वन्दे मातरम् इत्यस्य पूर्णस्वरूपस्य प्र
नीतिन नवीन फाइल फोटो


नवदिल्ली, २२ अगस्तमासः (हि.स.)। भारतीयजनतापक्षेण शनिवासरे राष्ट्र-गीतस्य वन्दे मातरम् इत्यस्य सम्मानस्य, गरिमायाः, ऐतिहासिक-परम्परायाश्च संरक्षणार्थं महत्त्वपूर्णः प्रस्तावः पारितः। पक्षेण संकल्पः कृतः यत् सः वन्दे मातरम् इत्यस्य पूर्णस्वरूपस्य प्रतिष्ठायाः राष्ट्रीय-महत्त्वस्य च रक्षणार्थं निरन्तरं संघर्षं करिष्यति तथा च तस्य गौरवपूर्णं इतिहासं देशस्य सर्वेषु भागेषु जनं जनं प्रति प्रापयिष्यति।

पक्षेण काङ्ग्रेसकार्यसमित्याः १९ अगस्तमासे २०२६ तमे वर्षे गृहीतस्य तस्य निर्णयस्य निन्दा कृता, यस्मिन् १९३७ तमवर्षस्य प्रस्तावस्य पुनःपुष्टिं कुर्वता काङ्ग्रेसकार्यक्रमेषु वन्दे मातरम् इत्यस्य केवलं प्रथमद्वयोः अन्तरायो: गायनस्य निर्णयः कृतः।

भाजपया स्वीयप्रस्तावे उक्तं यत् वन्दे मातरम् केवलं गीतं नास्ति, अपि तु भारतस्य राष्ट्रगीतं, भारतमातरं प्रति श्रद्धायाः अभिव्यक्तिः, स्वातन्त्र्यसङ्ग्रामस्य प्रेरणामन्त्रः, भारतस्य राष्ट्रियचेतनायाः च अमरं प्रतीकम् अस्ति। प्रस्तावे उक्तं यत् स्वातन्त्र्यसङ्ग्रामस्य समये वन्दे मातरम् इत्यनेन कोटिशः भारतीयानां हृदयेषु देशभक्तेः, साहसस्य, स्वातन्त्र्यचेतनायाश्च जागरणं कृतम्।

प्रस्तावे भारतीयजनतापक्षेण काङ्ग्रेस-कार्यसमित्याः १९ अगस्तमासे २०२६ तमे वर्षे गृहीतस्य निर्णयस्य स्पष्टतया विरोधः कृतः। पक्षेण उक्तं यत् १९३७ तमवर्षस्य प्रस्तावस्य पुनः स्वीकरणं तथा काङ्ग्रेसकार्यक्रमेषु वन्दे मातरम् इत्यस्य केवलं द्वयोः अन्तरयो: पर्यन्तं सीमितीकरणं राष्ट्रीयभावनायाः विरुद्धम् अस्ति। भाजपायाः मतम् अस्ति यत् एषः निर्णयः वन्दे मातरम् इत्यस्य सम्पूर्णगरिमां तस्य ऐतिहासिकपरिचयं च सीमितुं प्रयत्नः अस्ति।

प्रस्तावानुसारं भाजपा वन्दे मातरम् इत्यस्य गरिमायाः, सम्मानस्य, ऐतिहासिकपरम्परायाः, राष्ट्रीयस्थानस्य च अक्षुण्णतां स्थापयितुं प्रतिबद्धा अस्ति। पक्षेण उक्तं यत् कस्यापि राजनैतिक-प्रभावस्य, तुष्टीकरणस्य, संकीर्णमतपेठी-राजनित्याश्च कारणेन राष्ट्रगीतस्य प्रतिष्ठा न्यूनीकर्तुं न शक्यते।

पक्षेण वन्दे मातरम् भारतस्य राष्ट्रियास्मितया सम्बद्धम् अमरं प्रतीकम् इति कथयता उक्तं यत् तस्य ऐतिहासिकायाः, राष्ट्रियायाः, सांस्कृति-क्याश्च परम्परायाः विषये किमपि राजनैतिकसन्धिं स्वीकर्तुं न शक्यते। पक्षेण उक्तं यत् तस्य पूर्णानां षण्णाम् अन्तराणां ऐतिहासिकपरम्परा संरक्षिता भवेत्।

पक्षेण संकल्पः कृतः यत् सः वन्दे मातरम् इत्यस्य पूर्णस्वरूपस्य सम्मानस्य, प्रतिष्ठायाः, राष्ट्रीयमहत्त्वस्य च रक्षणार्थं निरन्तरं संघर्षं करिष्यति तथा च देशस्य सर्वेषु भागेषु तस्य गौरवपूर्णं इतिहासं जनं जनं प्रति प्रापयिष्यति।

Hindusthan Samachar / Divya Ranjan